BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 577 of 876

Read in context
Page 577

५३० | कथासरित्सागर

तत्पिता सोऽपि गोविन्दस्वामी हा पुत्र ! हा गुणिन् । हा हा विजयदत्तेति मुक्ताक्रन्दस्ततो ययौ ॥११०॥ एत्य चण्डीगृहं तच्च प्रातं पश्यन् मृताय च । श्यायसेऽशोकदत्ताय यथावृत्तं शशंस सः ॥१११॥ ततस्ताभ्यो सहान्विष्युदापात्तारणम् । तथा शोकान्नगवदामाजगाम न तापसः ॥११२॥ यथा वाराणसीसंस्थो देवीसन्दर्शनागतः । तत्रोपेत्य जनोऽप्यन्यो ययौ तत्समदुःखताम् ॥११३॥ तावच्च देवी पूजायामागत्यैको महावणिक् । अपश्यत्तं गोविन्दस्वामिनं तं तथाविधम् ॥११४॥ समुद्रदत्तनामासावुपेत्याश्वास्य च द्विजम् । तत्रैव स्वगृहं साधुर्निनाय सपरिच्छदम् ॥११५॥ स्नानादिनोपचारैण सत्र चैनमुपाचरत् । निसर्गो ह्येष महतां यदापन्नानुकम्पनम् ॥११६॥ सोऽपि जग्राह गोविन्दस्वामी पत्न्या समं धृतिम् । महाप्रतिश्रव श्रुत्वा जानानश्च सुतसङ्गमम् ॥११७॥ ततः प्रभृति चैतस्यां वाराणस्यामुवास सः । अभ्यर्चितो महाहृद्यस्य तस्यैव वणिजो गृहे ॥११८॥ तत्रैकाधीतविद्योऽस्य स सुतं प्राप्तयोवनः । द्वितीयोऽशोकदत्ताख्यो बाहुयुद्ध'मशिक्षत ॥११९॥ क्रमेण च ययौ तत्र प्रकर्षं स तथा यथा । अजीयत न केनापि प्रतिमल्लेन भूतले ॥१२०॥ एकदा देवयात्रायां तत्र मल्लसमागमे । जगामैको महामल्लः ख्यातिमान् दक्षिणापथात् ॥१२१॥ तेनात्र निखिला मल्ला राज्ञो वाराणसीपतेः । प्रतापमुकुटाख्यस्य पुरतोऽन्ये पराजिताः ॥१२२॥ ततः स राजा मल्लस्य युद्धं तस्य समादिशत् । आनाय्याशोकदत्तं च श्रुतं तस्माद् वणिग्वरात् ॥१२३॥


१ मल्लयुद्धम्; कुश्तीति भाषायाम् ।