कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 585 of 876
Read in context५३८ कथासरित्सागर
इदानीं चायं पुत्रेण स्वयमेव ममोचितम्। तस्मात् समेतु तेनासौ वृक्षेणवातैव। लता ॥१६९॥ इत्युक्तः प्रियया प्रीतः स राजा रचितोत्सवः। आहूयाशोकदत्ताय तस्मै तां तनयां ददौ ॥१७०॥ तयोश्च सोऽभूद्राजन्द्रपुत्रीविप्रेन्द्रपुत्रयोः। सङ्गमोऽयोग्यशोभायै लक्ष्मीविनययोरिव ॥१७१॥ ततः कदाचिद्राजानं तं देवी ब्रवीति स्म सा। अशोकदत्तानीय समुद्दिश्य मणिनूपुरम् ॥१७२॥ आर्यपुत्रायमेकाकी नूपुरो न विराजते। अनुरूपस्तदेतस्य द्वितीयः परिकल्प्यताम् ॥१७३॥ तच्छ्रुत्वा हेमकारादीनादिदेश स भूपतिः। नूपुरस्यास्य सदृशो द्वितीयः क्रियतामिति ॥१७४॥ ते तन्निरूप्य जगदुर्नेदृशो देव शक्यते। अपरः कर्तुमेतद्धि दिव्यं शिल्प न मानुषम् ॥१७५॥ रत्नानीह हि भूयांसि न भवन्त्येव भूतले। तस्मादेष यतः प्राप्तस्तत्रैवान्यो गवेष्यताम् ॥१७६॥ एतच्छ्रुत्वा सदेवीके विषण्णे राज्ञि तत्क्षणम्। अशोकदत्तस्तत्सर्वस्तद्ववृच्छृण्वन् सहसाब्रवीत् ॥१७७॥ अहमेवानयाम्यस्य द्वितीयं नूपुरस्य ते। एवं कृतप्रतिज्ञश्च राज्ञा साहससङ्किना ॥१७८॥ स्नेहात्निवार्यमाणोऽपि निश्चयान्न चचाल सः। गृहीत्वा नूपुरं तच्च श्मशानं स पुनर्ययौ ॥१७९॥ निशि कृष्णचतुर्दश्यां यत्रैव तमवाप्तवान्। प्रविश्य तत्र च प्राप्यचिताधूममलीमस ॥१८०॥ पाशोद्वेष्टितगलस्कन्धोल्लम्बिसमानुष । पादपरिव रक्षोभिराकीर्णे पितृकानने ॥१८१॥ अपश्यन्पूर्वदृष्टां तां स्त्रियं तन्नूपुराप्तये। उपायमेकं बुबुधे स महामांसविक्रयम् ॥१८२॥ तरुशाखाद् गृहीत्वाथ शवं बभ्राम तत्र सः। विक्रीणानो महामांसं गृह्यतामिति घोषयन् ॥१८३॥