भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 59, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 59

२६ कथासरित्सागर तत्र चाधीतविद्यास्ते प्रयोऽप्याशाम्बुधौ सिता । ययु स्वामिकुमारस्य दर्शने दक्षिणापथम् ॥८॥ तत्र ते चिञ्चिनीं नाम नगरीमम्बुधेस्तटे । गत्वा भोजिकसञ्ज्ञस्य विप्रस्य न्यवसन्गृहे ॥९॥ स च कन्या निजास्तिस्रस्तेभ्यो दत्त्वा धनानि च । तपसेऽन्यसन्तानो गङ्गा याति स्म भोजिकः ॥१० ॥ अथ तेषां निवसतां तत्र श्वशुरवेश्मनि । अवग्रहकृतस्तीव्रो दुर्भिक्ष समजायत ॥११॥ तेन भार्या परित्यज्य साध्वीस्तास्ते त्रयो ययुः । स्पृशन्ति न नृशंसानां हृदयं बन्धुबुद्धयः ॥१२॥ सतस्तु मध्यमा तासां सगर्भामूत्ततश्च ताः । भवनं यज्ञदत्तस्य पितृमित्रस्य शिश्रियुः ॥१३॥ तत्र तत्तूर्णिमार्भवन्त्यान्य क्लिष्टवृत्तयः । आपद्यपि सतीवृत्तं किं मुञ्चन्ति कुलस्त्रियः ॥१४॥ कालेन मध्यमा चात्र तासां पुत्रमसूत सा । अन्योन्यातिशयात्तस्मिन्स्नेहस्तासामबर्धत ॥१५॥ कदाचिद् व्योममार्गेण विहरन्तं महेश्वरम् । अङ्कस्था स्कन्दजननी तं दृष्ट्वा सद्यावदत् ॥१६॥ देव ! पश्य क्षिप्तांरस्मिन्नेवास्तिस्रोऽपि योषितः । यत्स्नेहा दधतमाशामेषोऽस्माञ्जीवयिष्यतीति ॥१७॥ तत्तथा कुरु येनायमेता बालोऽपि जीवयेत् । इत्युक्तः प्रियया देवो वरदः स जगाद ताम् ॥१८॥ अनुगृह्णाम्यमू पूर्वं सभार्थेणामुना भृतः । आराधितोऽस्मि तेनायं भोगाथै निर्मितो भुवि ॥१९॥ एतन्नाम्ना च सा याता पाटली नाम भूपतेः । महेन्द्रवर्मणः पुत्री भार्यास्यैव भविष्यति ॥२० ॥ इत्युक्त्वा स विभुः स्वप्ने साध्वीस्तिस्रो जगाद ताः । नाम्ना पुत्रक एवाय युष्माकं बालपुत्रकः ॥२१॥ मस्य सुप्तप्रबुद्धस्य शीर्षान्त च दिने दिने। सुवर्णलक्ष भविता राजा चायं भविष्यति ॥२२॥