भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 595, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 595

५४८ कथासरित्सागर सच्छङ्खा साप्यवादीत् कुतोऽन्यत् पङ्कजं मम। एतत्कपालस्फोटस्य विद्यतेऽस्मत्प्रभो सरः॥२४३॥ यत्रेतादृशानि जायन्ते हेमाम्बुजानि समन्ततः। तस्मात्तदेकं मद्भर्त्रे प्रीत्या पश्च स दत्तवान्॥२४४॥ एव तयोक्ते सोऽवादीत्तर्हि तन्मां सरोवरम्। नय यावत्स्वयं तस्मान्दादास्ये कनकम्बुजम्॥२४५॥ न शक्यमेतद्रक्षोभिर्भीषणैस्तद्धि रक्ष्यते। एवं निषिद्धोऽपि तया निर्बन्धं न स तं जहौ॥२४६॥ ततः कथमपिच्छीतश्च तया गत्वा ददर्श तम्। दूरात् सरोवरं दिव्यं शृङ्गाग्रिकटकाश्रितम्॥२४७॥ छन्नं निरन्तरोद्दण्डदीप्तहेमसरोरुहैः। सततोन्मुखतापीतसर्वन्ताकर्प्रभैरिव ॥२४८॥ गत्वैव तत्र यावन्न पद्मान्यवचिनोति सः। तावद्रक्षिणो घोरा रुधुस्तं निशाचराः॥२४९॥ सशस्त्रः सोऽवधीत्पञ्च मानान् याम ये पलाय्य च। गत्वा कपालस्फोटाय स्वामिने तन्न्यवेदयन्॥२५०॥ स तच्छ्रुत्वैव कुपितस्तत्र रक्षःपतिः स्वयम्। आजगामाथोवदत्त तमपश्यत्लुच्छिताम्बुजम्॥२५१॥ कथं भ्राता ममाधोकदत् सोऽयमिहागतः। इति प्रत्यभ्यजानाच्च तत्क्षणं स सविस्मयः॥२५२॥ ततः शस्त्रं समुत्सृज्य हर्षबाष्पाप्लुतेक्षणः। धावित्वा पादयोः सद्यः पतित्वा च जगाद तम्॥२५३॥ अहम् विजयदत्ताख्यः सोदर्यः स तवानुजः। जातो द्विजवरस्योभौ गोविन्दस्वामिनः सुतौ॥२५४॥ इयच्चिरं च जातोऽहं दैवादीदृङ्निशाचरः। चिताकपालदस्र्मात् कपालस्फोटनामकः॥२५५॥ त्वद्दर्शनादिदानीं न ब्राह्मण्यं संस्मृतं मया। गतं च राक्षस्यं मे माहात्म्याद्विजपुत्रनम्॥२५६॥