कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 597, कुल 876 में से
संदर्भ में पढ़ें५५ कथासरित्सागर एव विजयदत्तस्य वक्षः परिरभ्य सः । यावत्क्षालयतीबाङ्गं राक्षसीभावरूपितम् ॥२५७॥ अशोकदत्तो बाष्पाम्बुपूरैस्तावदबातरत् । प्रज्ञाजिकौशिको नाम विद्याधरगुरुर्द्विवः ॥२५८॥ स तौ डाक्यूपयेत्यैव भ्रातरौ गुरुरब्रवीत् । यूयं विद्याधराः सर्वे शापादतां दशां गताः ॥२५९॥ अधुना च स शापो वः सर्वेषां क्षान्तिमागतः । तद्गृहीत निजा विद्या बन्धुसाधारणीरिमाः ॥२६०॥ व्रजतं च निजं धाम स्वीकृतस्वजनौ युवाम् । इत्युक्त्वा दत्तविद्योऽसौ सयार्धामुनयो गुरुः ॥२६१॥ तौ च विद्याधरीभूतौ प्रबुद्धौ जग्मतुस्ततः । व्योम्ना तद्धिमवच्छृङ्गं गृहीतकनकाम्बुजौ ॥२६२॥ तत्र बाधोकदत्तस्तां रक्षःपतिसुतां प्रियाम् । उपागात् साप्यभूत्क्षीणशापा विद्याधरी तदा ॥२६३॥ तया च साकं सुवृक्षा भ्रातरौ तावुभावपि । वाराणसीं प्रयततुः क्षणाद्गगनगामिनी ॥२६४॥ तत्र चोपेत्य पितरौ विप्रयोगाग्निसंतापितौ । निर्वापयन्ता सद्यो दर्शनामृतवर्षिणौ ॥२६५॥ अदेहभेदेऽप्यापन्नन्तधिब्रजमान्तरौ च तौ । न पित्रोरेव लोकस्याप्युत्सवाय बभूवतुः ॥२६६॥ चिराद् विजयदत्तश्च गाडमालिङ्ग्यतः पितुः । भुजमभ्यमिवार्यर्थं मनोरथमपूरयत् ॥२६७॥ सतस्तत्रैव तद्बुद्ध्वा प्रतापमुकुटोऽपि सः ॥ अमोघदत्तश्वशुरो राजा हर्षादुपागमौ ॥२६८॥ : तत्सत्कृतश्च तद्राजधानीं सोत्कण्ठितप्रियाम् । मगोकदत्त स्वजने सार्धं बद्धोत्सवामगात् ॥२६९॥ ददौ च कनकाब्जानि राज्ञ तस्मै बहूनि सः । सभ्यर्थिताधिकप्राप्तिहृष्टः सोऽप्यभवन्नृपः ॥२७०॥ ततो विजयदत्तं च सर्वैश्चत्र स्थितेषु च । पिता पप्रच्छ गोविन्दस्वामी साश्चर्यकौतुकः ॥२७१॥