कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 599, कुल 876 में से
संदर्भ में पढ़ें५५४ कथासरित्सागर तदा विद्याधरगुरोर्विद्यां प्राप्य भविष्यथ। पुनर्विद्याधरो युक्तो शापमुक्तौ स्वबन्धुभिः॥२८६॥ एवं तैर्मुनिभिः शप्तौ जातावावामुभाविह। वियोगोऽत्र यथाभूत्तत्सर्वं विदितं च नः॥२८७॥ इदानीं पद्मदूतोश्च स्ववधूसिद्धिप्रभावतः। यक्षपतेः पुरं गत्वा प्राप्तोऽस्य चानुजो मया॥२८८॥ तत्रैव च गुरोः प्राप्य विद्यां प्रज्ञप्तिकोदिकात्। सद्यो विद्याधरीभूय यथ क्षिप्रमिहागता॥२८९॥ इत्युक्त्वा पितरौ च तौ प्रियतमां तां चारुमूर्जां भूपतेः। सद्यः शापतमोविमोक्षमुदितो विद्याविधेयैर्निजः॥ तैस्तैः सभ्यमभूद् विचित्रचरितः सोऽशोकदत्तस्तदा। यन्ते सद्यदि प्रबुद्धमनसोऽजायन्त विद्याधराः॥२९०॥ ततस्तमामन्त्र्य नृपं स साकं मातापितृभ्यां दयिताद्वयेन। उत्पत्य धन्यो निजचक्रवर्तिधाम द्युमार्गेण जयी जगाम॥२९१॥ राज्ञाश्लेष्य समाज्ञां प्राप्य च तस्मादशोकवेग इति। नाम स बिभ्रत् सोऽपि च तद्भ्राता विजयवेग इति॥२९२॥ विद्याधरवरतरुणौ स्वजनानुगतावुभौ निजनिवासम्। गोविन्दकूटसञ्ज्ञकमचलवरं भ्रातरौ ययतुः॥२९३॥ सोऽप्याश्चर्यवशः प्रतापकूटो वाराणसीभूपतिः स्वस्मिन् दैवकृते द्वितीयकलशन्यस्तैकहेमाम्बुजः। तद्धंसैरपरे सुवर्णकमलरम्यस्थितय्यम्बक- स्तात्सम्बन्धमहत्तया प्रमुदितो मेने कृतार्थं कुलम्॥२९४॥ एवं दिव्या कारणानावतीर्णा जायन्तेऽस्मिञ्जन्तवो जीवलोके। सत्त्वोत्साहो स्वोचितौ ते वभागा दुष्प्रापामप्यर्थसिद्धिं लभन्ते॥२९५॥ तत्सत्त्वसागर ! भवामपि कोऽपि जाने देवांश एव भविता च यथेष्टसिद्धिः। प्रायः क्रियासु महतामपि दुश्चरासु घोरसाहता कथयति प्रकृतेर्विशेषम्॥२९६॥ सापि त्वदीप्सिता ननु दिव्या राजारमजा कनकरेखा। सामान्यथा हि वाञ्छति कनकपुरीदर्शिनं वरं द्विपठिम्। २९७॥