BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 617 of 876

Read in context
Page 617

५९९ कथासरित्सागर प्राप्तायां च चतुर्दश्यां सा तं चन्द्रप्रभाब्रवीत्। अद्य गच्छामि विज्ञाप्य तातस्याहं भवत्कृतम् ॥७०॥ सर्वं परिजनश्चायं मयैव सह यास्यति। त्वया त्वकाकिना दुःखं न भाव्यं दिवसद्वयम् ॥७१॥ एकेन पुनरतस्मिन्मन्दिरेऽप्यवतिष्ठता। मध्यमा भवता भूमिर्नारोढव्या कथञ्चन ॥७२॥ इत्युक्त्वा सा युवानं स यस्तस्थिता तदन्तिके। तदीयचित्तानुगता ययौ चन्द्रप्रभा ततः ॥७३॥ सोऽप्येकाकी ततस्तत्र स्थितश्चन्ता विनोदयन्। स्थानस्थानञ्च बभ्राम शक्तिदेवा महर्द्धिषु ॥७४॥ किंसविदद्य निषिद्धं मे तया पृष्ठेऽधिरोहणम्। विद्याधरदुहित्रेति जातकौतूहलोऽथ सः ॥७५॥ तस्यैव मध्यमां भूमिं मन्दिरस्यारुगेह् ताम्। प्रायो वारितवामा हि प्रवृत्तिर्मनसो नृणाम् ॥७६॥ आरूढस्तत्र चापश्यद् गुप्तान् स्त्रीन् रत्नमण्डपान्। एकं चोद्घाटितद्वारं तन्मध्यात् प्रविवेश सः ॥७७॥ प्रविश्य चान्तः सद्रत्नपर्यङ्के न्यस्ततूलिके। पटावगुण्ठिततनुं शयानं कञ्चिदक्षत ॥७८॥ वीक्षते यावदुत्क्षिप्य पटं सार्थमृतां तथा। परोपकारिनृपतस्तनयां वरनयकाम् ॥७९॥ दृष्ट्वा चाचिन्तयत्तत्सोऽप्यं किमिदं महदद्भुतम्। किमप्रयोधमुप्तेयं किं वा भ्रान्तिरथाथवा ॥८०॥ यस्याः कृते प्रवासोऽयं मम सर्वेह तिष्ठति। ममाद्यपगतप्राणा तत्र देशे च जीवति ॥८१॥ अम्लानकान्तिरस्याश्च तद् विद्याया मम ध्रुवम्। कमापि चारुनटमिन्द्रजालं वितन्यते ॥८२॥ इति सञ्चिन्त्य विगत्य तावन्यौ मण्डपौ क्रमात्। प्रविश्यान्तं च ददर्श तदृकन्ये च कस्यके ॥८३॥ ततोऽपि निर्गतस्तस्य साश्चर्यो मन्दिरस्य सः। उपविष्टः स्थितोऽपश्यद् वापीमभ्यस्तमामयम् ॥८४॥