BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 631 of 876

Read in context
Page 631

५८ कथासरित्सागर प्रजहार च दृष्ट्वैव तस्मिन्नीरेऽभिधावति। पलाय्य व्रणित सोऽपि वराहः प्राविशद् बिलम् ॥१७५॥ शक्तिदेवोऽपि तत्रैव तदन्वपी प्रविश्य च। क्षणादपश्यत् सावासमुद्यानगहनं महत् ॥१७६॥ तत्रस्थश्च ददर्शासौ कन्यामत्यमृताकृतिम्। ससम्भ्रममुपायातां प्रीत्येव वनदेवताम् ॥१७७॥ तामपृच्छच्च कस्यासि ! का त्वं किं सम्भ्रमश्च ते। तच्छ्रुत्वा सापि सुमुखी तमवं प्रत्यभाषत ॥१७८॥ अस्ति दक्षिणविछनायो नृपतिश्चण्डविक्रमः। तस्याहं विन्दुरेखाख्या सुता सुभगकन्यका ॥१७९॥ इहाकस्माच्च पापो मां दैत्यो ज्वलितलोचनः। अपहृत्य च्छलेनाद्य पितुरानीतवान् गृहात् ॥१८०॥ स चामिषार्थी वाराहं रूपं कृत्वा बहिर्गतः। विद्धोऽद्य क्षुधार्त्तः सन् शक्त्या वीरेण केनचित् ॥१८१॥ विद्धमात्रं प्रविश्येह पञ्चत्वमागतश्च सः। तद्वधूतितकौमारा पश्चाद्बाह्य च निर्गता ॥१८२॥ तच्छ्रुत्वा शक्तिदेवस्तामूचे कस्तर्हि सम्भ्रमः। मयैव स वराहो हि हत शक्त्या नृपात्मजे ॥१८३॥ तत साप्यवदत्तर्हि ब्रूहि मे को भवानिति। विप्रोऽहं शक्तिदेवाख्य इति प्रत्यब्रवीच्च सः ॥१८४॥ सहि त्वमेव मे भर्तेत्युचितं स तया वृतः। ततस्यादाय तां धीरो बिलद्वारेण निर्ययौ ॥१८५॥ गृहं गत्वा च भार्यायै बिन्दुमत्यै निवेद्य तत्। तच्छङ्कितं कुमारीं तां बिन्दुरेखामुपोढवान् ॥१८६॥ ततस्तस्य द्विभार्यस्य शक्तिदेवस्य तिष्ठतः। तत्रैका बिन्दुरेखा सा भार्या गर्भमधारयत् ॥१८७॥ अष्टमे गर्भमासे च तस्या स्वैरमुपेत्य तम्। आद्या बिन्दुमती भार्या शक्तिदेवमुवाच सा ॥१८८॥ वीर ! तत्स्मर यन्मह्यं प्रतिश्रुतमभूत्त्वया। सोऽयं द्वितीयभार्याया गर्भमासोऽष्टमस्तव ॥१८९॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · Page 631 of 876 · BharatKosha