कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 645 of 876
Read in contextइति दिव्यां गिरं श्रुत्वा पाटितोदरमाशु सः। गर्भं तस्याः समाकृष्य पाणिना कच्छपोऽग्रहीत् ॥२६०॥ गृहीतमात्रो जज्ञे च स खड्गस्तस्य हस्तगः। आकृष्टः सत्वरं सिद्धेः केशपाश इवायतः ॥२६१॥ ततो विद्याधरः क्षिप्रात्स विप्रः समजायत। बिन्दुरेखा च तत्कालमदर्शनमियाय सा ॥२६२॥ तद्दृष्ट्वा च स गत्वैव वाणपुत्रीं न्यवेदयत्। बिन्दुमत्यै द्वितीयस्यै पत्न्यै सर्वं यथाविध ॥२६३॥ सा तमाह वयं नाथ विद्याधरपतेः सुताः। तिस्रो भगिन्यः कनकपुर्याः शापवशच्युताः ॥२६४॥ एका कनकरेखा सा वर्धमानपुरे त्वया। यस्या दृष्टः स शापान्तः सा च तां स्वां पुरीं गता ॥२६५॥ शापान्तो हीदृशस्तस्या विचित्रो विधियोगतः। अहमेव तृतीया च शापान्तश्चाधुनैव मे ॥२६६॥ मया चाद्यैव गन्तव्या नगरी सा निजा प्रिया। विद्याधरशरीराणि तत्रैवास्माकमासते ॥२६७॥ चन्द्रप्रभा च भगिनी ज्यायसी हि स्थिताऽत्र नः। तदायाहि त्वमप्यद्य खड्गसिद्धिप्रभावतः ॥२६८॥ तत्र ह्यस्मांश्चतस्रोऽपि भार्याः सम्प्राप्य चार्थिकाः। अनन्येनापिताः पित्रा पुरि राज्यं करिष्यसि ॥२६९॥ इति निजपरमार्थमुक्तवत्या सममनया पुनरेव बिन्दुमत्या। अथ कनकपुरीं स शक्तिदेवो गगनपथेन तथेति सो जगाम ॥२७०॥ तस्यां च यानि योषिद्वपुषि पर्यङ्कतलवर्त्तीनि। निर्जीवितान्यपश्यत्पूर्वं त्रिषु मण्डपेषु दिव्यानि ॥२७१॥ तानि यथामत् स्वानमभित्रन्प्रविष्टा स कनकरेखाद्याः। प्राप्तो भूयः प्रणता अद्वादीता निजप्रियान्निस्त्र ॥२७२॥ तां च चतुर्थीमैक्षत तज्ज्येष्ठां रुचितमङ्गसां तत्र। चन्द्रप्रभां पिबन्तीं चिरदर्शनमोत्कया दृष्ट्या ॥२७३॥
१ तद्बुद्धिदर्शनान्न विद्याधरत्वं खेचरत्वञ्च सम्प्राप्तम्।