भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 67, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 67

१४ कथासरित्सागर पश्यन्त्यास्त नृप तस्या लज्जाकौतुकयोर्हृशि । अभूदन्योन्यसमर्दौ रचयन्त्या गतागतम् ॥६६॥ अथालाप इव वृत्ते गान्धर्वाद्विवाहकर्मणि । अवर्धत तया प्रीतिर्दम्पत्योर्न तु यामिनी ॥६७॥ आमन्त्राम बभूवुर्त्का तद्गतेनैव चेतसा । आययो पश्चिमं भागं तद्वृद्धावेश्म पुत्रकः ॥६८॥ इत्थं प्रतिनिशं तत्र कुर्वाणेऽस्मिन्गतागतम् । सम्भोगचिह्नं पाटल्या रक्षिभिर्दृष्टमेकदा ॥६९॥ तैस्तदावेदितं तस्या पितु सोऽपि नियुक्तवान् । गूढमन्तःपुरे तत्र निशि नारीमवेक्षितुम् ॥७०॥ तया च तस्य प्राप्तस्य तत्राभिज्ञानसिद्धये । पुत्रकस्य प्रसुप्तस्य न्यस्तं वासस्यलक्तकम् ॥७१॥ प्रातस्तया च विज्ञातो राजा चारान्व्यसर्जयत् । सोऽभिज्ञानाच्च तै प्राप्त पुत्रको जीर्णवेश्मनि ॥७२॥ आनीतो राजनिट कुपितं वीक्ष्य च नृपम् । पादुकाभ्यां समुत्पत्य पाटलीमंदिरेऽविशत् ॥७३॥ विदिता स्वस्तनुत्तिष्ठ गच्छाव पादुकाबलात् । इत्यङ्के पाटलीं कृत्वा अगाम नभसा ततः ॥७४॥ अथ गङ्गातटनिकट गगनादवतीर्य स प्रियन्ताम् । पात्रप्रभावजाताहारैरनन्दयामास ॥७५॥ आसोक्तित्प्रभाव पाटल्या पुत्रकोऽपिसह ततः । यष्ट्या लिखित तत्र स नगर चतुरङ्गवलयुक्तम् ॥७६॥ तत्र स राजा भूत्वा महाप्रभाव च सत्यतां प्राप्ते । नमयित्वा त दनृपुर शशास पृथ्वीं समुद्रासाम् ॥७७॥ तदिव दिव्य नगर माययारचित सपौरमत एव । नाम्ना पाटलिपुत्र छात्र लक्ष्मीसरस्वत्यो ॥७८॥ इति वर्षमुखादिमामपूर्वां वयमाकर्ण्य कथामतीव चित्राम् । चिरमासमभूम बाणभूत विलसद्विस्मयमोदमानचित्ता ॥७९॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे प्रथमे कथापीठलम्बके तृतीयस्तरङ्गः ।

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 67, कुल 876 में से · BharatKosha