BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 679 of 876

Read in context
Page 679

१२४ कथासरित्सागर तन्मे स कतमो भर्त्ता त्वमिदानीं पतिर्मम। येनात्मनिरपेक्षेण कृता मृत्युमुखावहे॥१८०॥ स चैष दृश्यते भृत्यै सहागच्छन्पतिर्मम। अतः स्वैरं त्वमस्माकं पश्चादागच्छ साम्प्रतम्॥१८१॥ मध्येऽन्तरे हि मिलिता यास्यामो यत्र कुत्रचित्। एवं तयोक्तस्तदहं तथेति प्रतिपन्नवान्॥१८२॥ सुस्वाप्यर्पितदारमपि परस्त्रीयं किमेतया। इति धैर्यस्य मार्गोऽयं न तारुण्यस्य सङ्गिनः॥१८३॥ क्षणादेत्य च सा भर्त्रा बाला सम्भाविता सती। तेन साकं सभृत्येन गन्तुं प्रावर्त्तत क्रमात्॥१८४॥ अहं च गुप्ततद्वृत्तपाथेयः परवर्त्मना। पश्चादलक्षितस्तस्य दूरमध्वानमभ्यगाम्॥१८५॥ सा च हस्तिमदभ्रष्टमङ्गाङ्गजनितां रुजम्। पथि मिथ्या वदन्ती तं पतिं स्पर्शेऽप्यवर्जयत्॥१८६॥ कस्य रक्तोन्मुखी गाढरूढान्तरविषद्दुःसहा। तिष्ठेदनपकृत्य स्त्री भुजगीव विकारिता॥१८७॥ क्रमाच्च क्रोहनगरं प्राप्ताः स्मस्ते पुरं वयम्। वणिग्ज्याजीविनो यत्र भर्तुस्तस्या गृहं स्त्रियाः॥१८८॥ स्थिताः स्मस्तद्वहिश्चात्र सर्वे बाह्ये सुरालये। तत्र संम्मिलिताश्चैष द्वितीयो ब्राह्मणः सखा॥१८९॥ नवेऽपि वर्त्तनेऽन्योन्यमाश्वासः समभूच्च नो। चित्तं जानाति जन्तूनां प्रेम जन्मान्तरार्जितम्॥१९०॥ ततो रहस्यमात्मीयं सर्वमस्मै मयोदितम्। तद्बुद्ध्वैव तथा स्वैरं मामेवमयमब्रवीत्॥१९१॥ तूष्णीं भवास्त्युपायोऽत्र यत्कृते त्वमिहागतः। एतस्या भर्तुर्भगिनी विद्यतेऽत्र वणिक्स्त्रियाः॥१९२॥ गृहीतार्था मया साकमितः सा गन्तुमुद्यता। तत्करिष्ये तदीयेन साहाय्येन तवेप्सितम्॥१९३॥