भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 693, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 693

१२८ कथासरित्सागर चिक्रीड च चिरं सोऽत्र साकमप्सरसा तया। दिवं सापि न सस्मार रम्यं प्रेम न जन्मभूः ॥६४॥ तत्सखीयक्षिणीवृष्टेरुपरी स्वर्णराशिभिः। सास्यभूमिर्नरेन्द्रस्य धौतैश्शिखरैरिव ॥६५॥ कालेन चास्य राज्ञ सा सुवेगस्य वराप्सराः। असूतानन्यसदृशीं धृतगर्भा सती सुताम् ॥६६॥ प्रसूतमात्रैव च सा जगादेनं महीपतिम्। राजञ्शापोऽयमीवृद्धमे क्षीणो जात' स चाधुना ॥६७॥ अहं हि रम्भा नाकस्त्री त्वयि दृष्टेऽनुरागिणी। जाते च गर्भे मुक्त्वा तं गच्छामस्तत्क्षणं वयम् ॥६८॥ समयो हीदृशोऽस्माकं तद्रक्षे कन्यकामिमाम्। एतद्विवाहाज्ञाके नो भूयो भावी समागमः ॥६९॥ एवमुक्त्वाप्सरा रम्भा विवशा सा तिरोदधे। तद्दुःखान्न च स राजाभूत्तदा प्राणव्ययोद्यतः ॥७०॥ निरास्थेनापि किं त्यक्तं विश्वामित्रेण जीवितम्। मेनकायां प्रयातायां प्रसूयैव शकुन्तलाम् ॥७१॥ इत्यादि सचिवैरुक्तो ज्ञातार्थः स नृपो धृतिम्। शनैरादत्त कन्यां च पुनस्सङ्गमकारणम् ॥७२॥ तां च बालां सवेगाग्र पिता सर्वाङ्गसुन्दरीम्। सोऽतिलोचनसौन्दर्यान्नाम्ना चक्रे सुलोचनाम् ॥७३॥ कालेन यौवनप्राप्तामुद्यानस्थां ददर्श ताम्। युवा यदृच्छया भ्राम्यन्वत्सस्य काश्यपो मुनिः ॥७४॥ स तपोराशिरूपोऽपि दृष्ट्वैवैतां नृपात्मजाम्। अनुरागरसोऽभूदिति धाम व्यचिन्तयत् ॥७५॥ अहो रूपं किमप्यस्याः कन्यायाः परमाद्भुतम्। नेमां प्राप्नोति चेद् भार्या किमन्यत्तपसः फलम् ॥७६॥ इति ध्यायन् मुन्युवा स सुलोचनया तया। अददर्शि प्रज्वलत्तेजा विधूम इव पावकः ॥७७॥ तं वीक्ष्य सापि सप्रेमा साक्षसूत्रकमण्डलुम्। शान्तश्च कमनीयश्च कोऽयं स्यादित्यचिन्तयत् ॥७८॥