भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 701, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 701

१४६ कथासरित्सागर अनाख्याय कथां सुप्तः पापोऽयं तञ्छपाम्यहम्। परिदृश्यत्यसौ हारं प्रातस्तं चेद् ग्रहीष्यति॥१२४॥ कण्ठलग्नेन तेनैष तत्क्षणं मृत्युमाप्स्यति। इत्युक्त्वा विररामैका द्वितीया च ततोऽब्रवीत्॥१२५॥ अतो यद्ययमुत्तीर्णस्तद्व्रक्ष्यत्याग्रपादपम्। बियोक्ष्यते फलान्यस्य सद्यः प्राणैर्विमोक्ष्यते॥१२६॥ इत्युक्त्वा व्यरमत्सापि तृतीयाभिबधे ततः। यद्येतदपि तीर्णोऽस्य तद्विवाहकृते गृहम्॥१२७॥ प्रविशन्नेतदेवास्त्य हस्तु पृष्ठे पतिष्यति। उक्तेति न्यवृत्तसापि चतुर्थी व्याहरत्ततः॥१२८॥ अतोऽपि यदि निस्तीर्णस्तद्भक्तं वासवेश्मनि। प्रविष्टः शतकृत्वोऽयं क्षुतं सद्यः करिष्यति॥१२९॥ शतकृत्वोऽपि यद्यस्य जीवेति न वदिष्यति। कश्चिदत्र ततश्चैव मृत्योर्वशमुपैष्यति॥१३०॥ येन चैव श्रुतं सोऽस्य रक्षार्थं यदि वक्ष्यति। तस्यापि भविता मृत्युरित्युक्त्वा सा न्यवर्त्तत॥१३१॥ वणिक्सुतश्च तत्सर्वं श्रुत्वा निर्घातदारुणम्। स तस्य राजपुत्रस्य स्नेहोद्विग्नो व्यचिन्तयत् ॥१३२॥ उपक्रन्तामनाख्यातां धिक्कथां यद्यरुक्षिताः। देवताः श्रोतुमायाताः सपन्त्यस्तु कुतूहलात्॥१३३॥ स्रवेत्तस्मिन्मृते राजसुते कोऽर्थो ममासुभिः। अतोऽयं रक्षणीयो मे युक्त्या प्राणसमः सुहृत्॥१३४॥ वृत्तान्तोऽपि न वाच्योऽस्य मा भूद्द्रोषो ममाप्यतः। इत्यालोच्य निशां निन्ये स कृच्छ्रेण वणिक्सुतः॥१३५॥ राजपुत्रोऽपि स प्रातः प्रस्थितस्तत्सखः पथि। ददर्श पुरतो हारं तमादातुमिषेष च॥१३६॥ ततोऽब्रवीद् वणिक्पुत्रो हारं मास्म ग्रहीः सखे। मायैयमन्यथा नैते पदयेयुः सैनिकाः क्वचित्॥१३७॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 701, कुल 876 में से · BharatKosha