भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 703, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 703

१४८ कथासरित्सागर तच्छ्रुत्वा तं परित्यज्य गच्छन्नग्रे ददर्श सः । आम्रवृक्षं फलायस्य भोक्तुं चैच्छन्नृपात्मजः ॥१३८॥ वणिक्पुत्रेण च प्राप्तस्ततोऽपि स निवारितः । सान्तःस्वेदं शनैर्गच्छन्नाप श्वशुरवेश्म तत् ॥१३९॥ तत्रोद्वाहकृते वेश्म विशन्द्धाराधिवर्त्तितः । तैनेव सख्या यावच्च तावत्पतितं गृहम् ॥१४०॥ ततः कथञ्चिदुत्तीर्णः किञ्चित्सम्प्रत्ययो निधिः । निवासके विवेशान्ये राजपुत्रो वधूसखः ॥१४१॥ तत्र तस्मिन्वणिक्पुत्रे प्रविश्यारक्षितस्थिते । ससङ्करवं क्षुतं चक्रे शयनीयाश्रितोऽप्यसौ ॥१४२॥ शतकृत्वोऽपि तस्मान्न नीचैर्जीवेत्युदीर्य सः । कृतकार्यो वणिक्पुत्रो हृष्टः स्वैरं वहिर्ययौ ॥१४३॥ निर्यान्तं तमपश्यच्च राजपुत्रो वधूसखः । ईर्ष्याविस्मृततत्स्नेहः क्रुद्धो द्वाःस्थानुवाच च ॥१४४॥ पापात्मायं रहस्यस्य प्रविष्टोऽन्तःपुरं मम । तद्बद्ध्वा स्थाप्यतां यावत्प्रभातेऽसौ निगृह्यते ॥१४५॥ तदुक्त्वा रक्षिभिर्बद्धो निशां निन्ये वणिक्सुतः । प्रातर्वध्यभुवं तैश्च नीयमानोऽब्रवीत्स तान् ॥१४६॥ आदौ नयत मां तावद्राजपुत्रान्तिकं यतः । वक्ष्यामि कारणं किञ्चित्ततः कुरुत मे वधम् ॥१४७॥ इत्युक्तैस्तेन तैर्गत्वा विज्ञप्तः स नृपात्मजः । सचिवैर्योषितश्चान्यैस्तस्यानयनमाविशत् ॥१४८॥ आनीतः सोऽब्रवीत्तस्मै वृत्तान्तं राजसूनवे । प्रत्ययाद्गृहपालोत्थाम्मेमे सत्यं च सोऽपि तत् ॥१४९॥ ततस्तुष्टः समं सख्या वधमुक्तेन तेन सः । आययौ राजतनयः कृतदारो निजां पुरीम् ॥१५०॥ तत्र सोऽपि सुहृत्तस्य कृतदारो वणिक्सुतः । स्तूयमानगुणः सर्वजनैरासीद्यथामुदम् ॥१५१॥ एवमप्यदृढदृशा मूर्खाः स्वमिमन्तप्रमाथिनः । राजपुत्रा न मन्यन्ते हितं भर्ता गजा इव ॥१५२॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 703, कुल 876 में से · BharatKosha