कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 713, कुल 876 में से
संदर्भ में पढ़ें१६० कथासरित्सागर तद्दृष्ट्वा च ततस्तस्या जननी रोगशङ्किनी। आनन्दास्येन भिषजा निरूप्याविकलोदिता ॥२४॥ कुतोऽपि हेतोर्हर्षेण नष्टास्याः क्षुन्न रोगतः। उत्फुल्लनेत्रं वक्त्र्येतदस्या हसदिवाननम् ॥२५॥ इत्युक्ता भिषजा हर्षहेतुं सञ्जननी च सा। पप्रच्छ तां यथावृत्तं सापि तस्यै तदब्रवीत् ॥२६॥ सतः श्लाघ्यसखीसङ्गहृष्टा मत्वाभिनन्द्य च। आहारं कारयामास जननी तां यथोचितम् ॥२७॥ अथान्येद्युरुपागत्य विदितार्था क्रमेण सा। कलिङ्गसेनां तामेव रह सोमप्रभाम्यधात् ॥२८॥ मया स्वसख्यमावेद्य त्वत्पाश्र्वौगमनोऽवहम्। अनुज्ञा ज्ञानिनो भर्तुर्गृहीता विदिताथतः ॥२९॥ तस्मात्त्वमप्यनुज्ञासा पितृभ्यां भव साम्प्रतम्। येन स्वैरं मया साकं निःशङ्का विहरिष्यसि ॥३०॥ एवमुक्तवती हस्ते तो गृहीत्वैव तत्क्षणम्। कलिङ्गसेना स्वपितुर्मातुश्च निकटं ययौ ॥३१॥ तत्र नामान्वयाख्यानपूर्व चैतामवर्णयत्। पित्रे कलिङ्गदत्ताय राज्ञे सोमप्रभां सखीम् ॥३२॥ मात्रे च तारादत्तायै सर्ववैतामवर्णयत्। तौ च दृष्ट्वा यथास्यानमेनामभिननन्दतुः ॥३३॥ ऊचतुश्चाकृतिप्रीती दम्पती साधुभो दृढ। सस्कृत्य दुहितृस्नेहात्तां महासुरसुन्दरीम् ॥३४॥ वत्स कलिङ्गसेनेयं हस्ते तव समर्पिता। तदिदानीं यथाकाममुभे विहरतां युवाम् ॥३५॥ एतत्तयोर्वचो द्वे साप्यभिनन्द्य निर्ययुः। समं कलिङ्गसेना च सा च सोमप्रभा ततः ॥३६॥ जग्मतुश्च विहाराय बिहारं राजनिनिर्मितम्। आनिन्यतुश्च तां तत्र मायायन्त्रकरण्डिकाम् ॥३७॥ ततो यन्त्रमयं यक्षं गृहीत्वा प्राहिणोत्तदा। सोमप्रभा स्वप्रयोगाद् बुद्धावनियताय सा ॥३८॥ स यक्षो नभसा गत्वा दूरमम्लानमानसः। आदाय मुक्तासङ्गलहमाम्बुरुहमञ्जरम् ॥३९॥