भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 715, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 715

तेनाभिपूज्य सुगता मासमाभास तत्र सा। सोमप्रभा सनिख्यान्सर्वाश्चर्यप्रदायिना ॥४०॥ तद्बुद्ध्वागत्य दृष्ट्वा च विस्मितो महिषीसखः। राजा कलिङ्गदत्तस्तामपृच्छत्तच्चेष्टितम् ॥४१॥ सत सोमप्रभावादीद्भाजन्नेतान्यनेकधा। मायायन्त्रादिशिल्पानि पित्रा सृष्टानि मे पुरा ॥४२॥ यथा चेद जगद्यन्त्रं पञ्चभूतात्मक तथा। यन्त्राण्येतानि सर्वाणि शृणु तानि पृथक् पृथक् ॥४३॥ पृथ्वीप्रधान यन्त्र यद्द्वारादि विवक्षाति तत्। विहित तेन शक्नोति न चोद्घाटयितु पर ॥४४॥ आकारस्तोयमन्त्रोत्थः सजीव इव दृश्यते। तेजोमय तु यद्यन्त्र तज्ज्वाला परिमुञ्चति ॥४५॥ वातयन्त्रं च कुरुते चेष्टागत्यागमाविकाः। व्यक्तीकरोति चालाप यन्त्रमाकाशसम्भवम् ॥४६॥ मया चैतान्यवाप्तानि तातात् किं त्वमृतस्य यत्। रक्षक चक्रमन्त्रं धत्तातौ जानाति नापर ॥४७॥ इति तस्या वदन्त्यास्तद्वचः श्रद्दधतामिव। मध्याह्न पूर्यमाणानां शङ्खानामुदभूद्ध्वनिः ॥४८॥ तत स्वोधितमाहार वातु विज्ञाप्य तं नृपम्। प्राप्यानुज्ञां विमाने तां सामुर्गा यन्त्रनिर्मिते ॥४९॥ कलिङ्गसेनामादाय प्रतस्थे गगनेन सा। सोमप्रभा पितृगृहं ज्येष्ठाया स्वसुरन्तिकम् ॥५०॥ क्षणाच्च प्राप्य विन्ध्याद्रिवर्ति तत्पितृमन्दिरम्। रम्या स्वयंप्रभायाश्च पार्श्वं सानयत्स्वस ॥५१॥ तत्रापश्यज्जटाजूटभासिनीं तां स्वयंप्रभाम्। कलिङ्गसेना रुद्राक्षमार्ला सा ब्रह्मचारिणीम् ॥५२॥ सुसिताम्बरसवीता हसन्तीमिव पार्वतीम्। कामभोगमहाभोगगृहीतोन्नतप श्रियाम् ॥५३॥ सापि सोमप्रभाख्यातो प्रणतो तो नृपात्मजाम्। स्वयंप्रभा गृहातिथ्या संविभेजे फलाशन ॥५४॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 715, कुल 876 में से · BharatKosha