कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 725 of 876
Read in context६७२ कथासरित्सागर स्त्रीति ज्ञातास्मि केनापि हृतवस्त्रान्तरा यदि। ततो मृत्युर्मम श्रेयान्न पुनः शील विप्लवः ॥११३॥ तेन धर्मेव मे रक्ष्यौ नापेक्ष्योऽय सुहृद् वणिक्। सतीधर्मो हि सुस्त्रीणां चिन्यो न सुहृदादयः ॥११४॥ इति निश्चित्य सा प्राप छिन्वती तरुमध्यगम्। गर्तं गुहाकृतिं दत्तं कृपयेवान्तरं भुवा ॥११५॥ तत्र प्रविश्य छाच्छाद्य तृणपर्णादिभिस्तनुम्। तस्थौ संधार्यमाणा सा पतिसङ्गमवाञ्छया ॥११६॥ ततो निशीथे सहसा विपत्येवोद्यतायुधा। चौरसेना सुमहती सार्थं वष्टपति स्म तम् ॥११७॥ निनदद्दस्युशस्त्राग्रं शस्त्रज्वालाचिरप्रभम्। सत्तं ससृगिरासारं तथाभूद्युद्धदुर्दिनम् ॥११८॥ हत्वा समुद्रसेनं च सानुगं तं वणिक्पतिम्। बलिनोऽथ ययुश्चौरा गृहीतधनसञ्चयाः ॥११९॥ तदा च भीतिसेना सा श्रुतकोलाहला बलात्। यन्न मुक्तासुमिरतत्र कारणं केवलो विधिः ॥१२०॥ ततो निशायां यातायामुदिते तिग्मतेजसि। निर्जगाम च सा तस्माद् गर्ताद् विटपमध्यतः ॥१२१॥ कामं भर्त्रेकभक्तानामविस्रंसिततेजसाम्। देवता एव साध्वीनां त्राणमापदि कुर्वते ॥१२२॥ यत्तत्र निर्जनेऽरण्ये सिंहो दृष्ट्वापि तां जहौ। न परं यावदभ्येत्य कुतश्चित्कोऽपि तापसः ॥१२३॥ पृष्टोदन्तां समाश्वास्य जलपानं कमण्डलोः। दत्त्वोपविश्य पन्थानं तस्याः क्वापि तिरोदधे ॥१२४॥ ततस्तुप्तामृतेनेव क्षत्पिपासाविनाकृता। तापसोक्तेन मार्गेण प्रतस्थे सा पतिव्रता ॥१२५॥ प्रभास्तशिखराण्डं प्रसारिसकरं रविम्। रात्रिमेकां क्षमस्वेति वदन्तमिव वीक्ष्य सा ॥१२६॥ महतोऽरण्यवृक्षस्य गुहाम भूरिकोठरम्। विवेश पिदधे चास्य द्वारमन्येन दारुणा ॥१२७॥