BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 73 of 876

Read in context
Page 73

४ कथासरित्सागर उपकोशा हि म ध्य काङ्क्षन्ती निजमन्दिरे। अतिष्ठत्प्रत्यहं स्नान्ती गङ्गायां नियतव्रता ॥२८॥ एकदा सा मधौ प्राप्ते क्षामा पाण्डुमनोरमा। प्रतिपच्चन्द्रलेखेव जनलोचनहारिणी ॥२९॥ स्नातुं त्रिपथगां यान्ती दृष्टा राजपुरोधसा। दण्डाधिपतिना चाथ कुमारसचिवेन च ॥३०॥ तत्क्षणात्ते गता सर्वे स्मरसायकलक्ष्यताम्। सापि तस्मिन्दिने स्नान्ती क्षणमप्यकरोच्चिरम् ॥३१॥ आगच्छन्तीं च साय तां कुमारसचिवो हठात्। अग्रहीदथ साप्येनमवोचत्प्रतिभावती ॥३२॥ अभिप्रेतमिदं भद्र ! यथा तव तथा मम। किं त्वहं सत्कुलोत्पन्ना प्रवासस्थितभर्तृका ॥३३॥ कथमद्य प्रवर्त्तेय पश्येत्कोऽपि कदाचन। ततश्च ध्रुवमद्यस्त्वया सह भवन्मम ॥३४॥ तस्मान्भूत्सङ्कथास्मिंस्त्वौरलोके गृहं मम। आगन्तव्यं ध्रुवं रात्रे प्रथमे प्रहरे त्वया ॥३५॥ इत्युक्त्वा कृतसङ्घा सा तेन क्षिप्ता विशेषद्वात्। यावत्किञ्चिद् गता तावन्निरुद्धा सा पुरोधसा ॥३६॥ तस्यापि तथैव दिन तद्भवदेव यथा निशि। सङ्केतकं द्वितीयस्मिन् प्रहरे पर्यकल्प्यत ॥३७॥ मुक्तां कथञ्चित्तेनापि प्रयातां किञ्चिदन्तरम्। दण्डाधिपो रुरोध स्म तृतीयान्तां सुविह्वलाम् ॥३८॥ अथ तस्यापि दिवस तस्मिन्नेव तथैव सा। सङ्केतकं त्रियामायास्तृतीये प्रहरे व्यधात् ॥३९॥ दैवात्तनापि निर्मुक्ता सङ्कम्पा गृहमागता। कर्तव्यतां सा स्वघटीनां सविधे स्वैरमब्रवीत् ॥४०॥ वरं पत्यौ प्रवासस्थे मरणं कुलयोषितः। न तु श्वपारमत्लोकलोचनापातपात्रता ॥४१॥ इति सञ्चिन्तयन्ती च स्मरन्ती मां निनाय सा। शोषयन्ती स्वं वपुः साध्वी निराहारैव तां निशाम् ॥४२॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · Page 73 of 876 · BharatKosha