BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 731 of 876

Read in context
Page 731

६०६ कथासरित्सागर शिरःपूर्वं भृशाम्यक्तं तस्य न्यस्तोष्णसर्पिषा। कृत्वा मध्याह्नकटिने स्थापितस्यातपे शिरम्॥१४४॥ निवेश्य कर्णकुहरे सुषिरा वंशनालिकाम्। शीताम्बुघटपृष्ठस्थशरावच्छिद्रसङ्गिनीम् ॥१४५॥ तेन स्वेदातपक्लान्ता निर्गत्यास्य शिरान्तरात्। कर्णरन्ध्रेण रोमथ वंशनाडीं प्रविश्य ताम्॥१४६॥ घटे शीताभिलाषिण्यः शतपद्यः पतन्ति ताः। एवं स नृपतिस्तस्मान् महारोगाद् विमुच्यते॥१४७॥ इत्युक्त्वा राक्षसी पुत्रान् वृक्षस्थान् विरराम सा॥ कीर्तिसेना च तत्सर्वमशृणोत्कोटरस्थिता॥१४८॥ श्रुत्वा च चिन्तयामास निस्तरिष्यामि खेदितः। तद्गत्वा चैतया युक्त्या जीवयिष्यामि तं नृपम्॥१४९॥ एतामेवाटवीं सोऽप्यशुल्कं प्रान्तस्थितोज्झति। तत्सौकर्याच्च वणिजः सर्वे यान्त्यमुना पथा॥१५०॥ एतत्समुद्रसेनोऽपि स्वर्गमी सोऽब्रवीद् वणिक्। तदेतेनैव मार्गेण स मे भर्तागमिष्यति॥१५१॥ अतो गत्वाटवीप्रान्ते वसुदत्तपुरे नृपम्। रोगादुत्तार्य तत्रस्था प्रतीक्षे भर्तुरागसम्॥१५२॥ एव विचिन्तयन्ती सा कृच्छ्रात्तामनयन्निशाम्। प्रातर्नष्टेषु रक्षःसु निरगात् कोटरात्ततः॥१५३॥ क्रमात्ततोऽटवीमध्ये यान्ती पुरुषवेषभृत्॥ प्राप्तेऽपराह्णे गोपालमेकं साधु ददर्श सा॥१५४॥ तत्सौकुमार्यदूराच्चदर्शनादङ्गीकृतं च तम्। पप्रच्छोपेत्य सा कोऽयं प्रदेशः कथ्यतामिति॥१५५॥ सोऽपि गोपालकोऽब्रवीद् वसुदत्तस्य भूपतेः। वसुदत्तपुरं नाम पुरमेतत्पुरः स्थितम्॥१५६॥ राजापि स महाश्मात्र मुमूर्षुर्व्याधितः स्थितः। तच्छ्रुत्वा कीर्तिसमा स गोपालकमभाषत॥१५७॥ यदि मां नयते कश्चिद्राजस्तस्यान्तिकं ततः। अहं तं तस्य जानामि निवारयितुमामयम्॥१५८॥ तच्छ्रुत्वैवाबदद् गोपः पुरेऽत्रैव व्रजाम्यहम्। तदायाहि मया साकं यावद्यत्नं करोमि ते॥१५९॥