कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 739, कुल 876 में से
संदर्भ में पढ़ें३८४ कथासरित्सागर
चतुस्त्रिंशस्तरङ्गः मदनवेगनाम्नो विद्याधरस्य कथा अथ स्वसद्म यातायाः पदव्यां मार्गमवेक्षितुम् । सोमप्रभायाः स्नेहेन मार्गहर्म्याग्रमास्थिताम् ॥१॥ कलिङ्गसेनामारक्तां ददर्श गगनागतः । दैवान्मदनवेगाख्यो युवा विद्याधराधिपः ॥२॥ स तां दृष्ट्वैव रूपेण जगत्त्रितयमोहिनीम् । क्षोभं जगाम कामेन्द्रजालिकस्येव पिच्छिकाम् ॥३॥ अलं विद्याधरस्त्रीभिः का कथाप्सरसामपि । यत्रेदृशमेतस्या मानुष्या रूपमद्भुतम् ॥४॥ तदेषा यदि मे न स्याद् भार्या किं जीवितेन तत् । कथं च मानुषीसङ्गं कुर्यां विद्याधरोऽपि सन् ॥५॥ इत्यालोच्य स दध्यौ च विद्यां प्रज्ञप्तिसञ्ज्ञिकाम् । सा चाविर्भूय साकारा तमेवमवदत्तदा ॥६॥ तत्त्वतो मानुषी नैवैषा शापच्युताप्सराः । जाता कलिङ्गदत्तस्य गृहे सुभग ! भूपतेः ॥७॥ इत्युक्ते विद्यया सोऽथ हृष्टो गत्वा स्वधामनि । विद्याधरोऽन्यविमुखः कामार्तः समचिन्तयत् ॥८॥ हठाद्यदि हराम्येतां तदेतन्मे न युज्यते । स्त्रीणां हठोपभोगे हि मम शापोऽस्ति मृत्युदः ॥९॥ तदेतत्प्राप्तये शम्भुराराध्यस्तपसा मया । तपोऽधीनानि हि श्रेयांस्युपायोऽन्यो न विद्यते ॥१०॥ इति निश्चित्य चान्येद्युर्गत्वा ऋष्यमपर्वतम् । एकपादस्थितस्तप्ते निराहारस्तपांसि सः ॥११॥ अथ तुष्टोऽचिरात्तीव्रैस्तपोभिर्वत्सदर्शनः । एवं मदनवेगं तमादिदेशाम्बिकापतिः ॥१२॥ एषा कलिङ्गसेनाख्या ख्याता रूपेण भूतले । कन्या नास्याश्च भर्त्तापि सदृशो रूपसम्पदा ॥१३॥ एकस्तु वत्सराजोऽस्ति स चैतामभिवाञ्छति । किं तु बान्धववशाया भीत्या प्रार्थयते स्फुटम् ॥१४॥