भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 777, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 777

७२० कथासरित्सागर श्रुत्वा दूरतरं तं च रुन्मनाविघ्नचेतसि । ततः कलिङ्गसेनायां समहत्तरकोऽभ्यधात् ॥१७॥ प्रेक्ष्यो लग्नोऽनुकूलः प्रायेन स्यादेतयोः शुभम् । यावत्कालं हि दम्पत्यो र्कि चिरेणाचिरेण वा ॥१८॥ एतन्महत्तरवचः श्रुत्वा सर्वेऽपि तत्क्षणम् । सदुक्तमेवमेवैतदिति तत्र बभाषिरे ॥१९॥ यौगन्धरायणोऽप्याह हा कुलघ्ने कृते च न । कलिङ्गवतः सम्बन्धी राजा शेषं व्रजेदिति ॥२०॥ ततः कलिङ्गसेनापि सर्वांस्तानवशा सती । यथा भवन्तो जानन्तीत्युक्त्वा सज्जी बभूव सा ॥२१॥ तदेव च वचस्तस्या गृहीत्वामन्त्र्य तां ततः । यौगन्धरायणो राज्ञः पार्श्वं सगणको ययौ ॥२२॥ तत्र तस्मै तदाधाय वत्सेशाय तथैव सः । युक्त्या च तमवस्थाप्य स जगाम निजं गृहम् ॥२३॥ सिद्धकालातिपातश्च कार्यशेषाय तत्र सः । योगेश्वराख्यं सुहृदं सस्मार ब्रह्मराक्षसम् ॥२४॥ स पूर्वप्रतिपन्नस्तं स्वैरं ध्यानादुपस्थितः । राक्षसो मन्त्रिणं नत्वा किं स्मृतोऽस्मीत्यवोचत ॥२५॥ ततः स मन्त्री तस्मै तं कृत्स्नं व्यसनं प्रभोः । कलिङ्गसेनावृत्तान्तमुक्त्वा भूयो जगाद तम् ॥२६॥ कालो मया हृतो मित्र तमद्ये त्वं स्वमुचितं । युक्तं कलिङ्गसेनायाः प्रच्छन्नोऽन्यां निरूपयेः ॥२७॥ विद्याधरादयस्तां हि छन्नं वाञ्छन्ति निश्चितम् । यतोऽन्या तादृशी नास्ति रूपेणास्मिञ्जगत्त्रये ॥२८॥ अतः केनापि सिद्धेन सह विद्याधरेण वा । गच्छेद्विसा यदि तच्च त्वं पश्येस्तदमङ्गलं भवेत् ॥२९॥ अन्यरूपागतश्चात्र लक्ष्यस्ते दिव्यकामुकः । स्वापकाले यतो दिव्याः सुप्ताः स्वे रूप आसते ॥३०॥ एवं स्वदृष्टितस्तस्या दोषोऽस्माभिर्विलोक्यते । तस्यां राजा विरज्येच्च तत्कार्यं निर्वहेच्च न ॥३१॥