BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 801 of 876

Read in context
Page 801

४४२ कथासरित्सागर इत्युक्त्वा तापसी तेन नापितेन सहेति सा। गत्वा राज्ञो महादेव्यै यथावस्तु न्यवेदयत् ॥१७८॥ देवी च तत्तथा चक्रे सा तद्युक्त्या नृपोऽपि ताम्। प्रत्यक्षं वीक्ष्य कदलीगर्भा तुष्टेति तां जहौ ॥१७९॥ तुष्टया च ततो देव्या तया गुप्तमदायि यत्। प्रव्राजिका तद्बुभुजे सा यथेष्टं सनापिता ॥१८०॥ स्वयसा च कदलीगर्भा सा तेन दृढवर्मणा। राज्ञाभिशापसन्तप्ता निर्ययौ राजमन्दिरात् ॥१८१॥ येनाजगाम तेनैव प्रययौ पितुराश्रमम्। पूर्वोपजातसिद्धार्थसाभिज्ञानेन सा पथा ॥१८२॥ तत्र सामागतां दृष्ट्वा सोऽकस्मात्तत्पिता मुनिः। तस्या दुश्चरिताशङ्की तस्थौ मङ्कणकः क्षणम् ॥१८३॥ प्रणिधानाच्च सं कृत्स्नं तद्वृत्तान्तमवेत्य सः। आश्वास्य च स्वयं स्नेहात्तामादाय ययौ ततः ॥१८४॥ एत्य तस्मै तथाचख्यौ स्वयं प्रह्वय भूपते। देव्या सपत्नीदोषेण कृतं कपटनाटकम् ॥१८५॥ तत्कालं स्वयमभ्येत्य राज्ञे तस्मै स नापितः। यथावृत्तं तथाचष्ट पुनरेवमुवाच च ॥१८६॥ इत्थं विशोध्य कदलीगर्भा राज्ञी मया प्रभो! अभिचारवशाद्युक्त्या देवीं सन्तोष्य रक्षिता ॥१८७॥ तच्छ्रुत्वा निश्चय दृष्ट्वा मुनीन्द्रवचनस्य सः। जग्राह कदलीगर्भा सम्जातप्रत्ययो नृपः ॥१८८॥ अनुगम्य मुनिं तं च संविभेजे स नापितम्। भक्तो ममायमित्यर्थैर्धूर्तेर्भोज्या बतेश्वराः ॥१८९॥ ततस्तया समं तन्वी कदलीगर्भयैव सः। राजा स्वदेवीविमुखो दृढवर्मा सुनिवृतः ॥१९०॥ एवं विधान्विदधते सुबहुन्सपत्न्यो दोषा मुपाप्यनवमाङ्गि कलिङ्गसेने! त्वं कन्यका च चिरभाविविवाहलग्ना वाञ्छन्त्यचिन्त्यगतयश्च सुरा अपि त्वाम् ॥१९१॥