BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 823 of 876

Read in context
Page 823

श्रावस्तीत्यस्ति नगरी तस्यां पूर्वं प्रसेनजित्। राजाभूत्तत्र चाभ्यागात्कोऽप्यपूर्वो द्विजः पुरि॥१३३॥ सोऽशूद्राश्रमगुप्तेन धनिना गुणवानिति। ब्राह्मणस्य गृहे तत्र कस्यचित्स्थापितो द्विजः॥१३४॥ तत्रैव तेन शुष्कान्नदक्षिणादिभिरन्वहम्। आपूर्यत ततोऽन्यैश्च धनेर्वृद्ध्वा वणिग्वरैः॥१३५॥ तेनासौ हेमदीनारसहस्रं कृपणः क्रमात्। सञ्चित्य गत्वारण्ये तन्निखत्य क्षिप्तवान् भुवि॥१३६॥ एकाकी प्रत्यहं गत्वा तच्च स्थानमवैक्षत। एकदा हेमशून्यं तत्खातं व्यक्तं च दृष्टवान्॥१३७॥ शून्यं तत्खातकं तस्य पश्यतो हृतचेतसः। न परं हृदि संक्रान्ता चित्रं दिक्ष्वपि शून्यता॥१३८॥ अथोपागाच्च विलपंस्तं विप्रं यद्गृहे स्थितः। पृष्टस्तं च स्ववृत्तान्तं तस्मै सर्वं न्यवेदयत्॥१३९॥ गत्वा तीर्थमभुञ्जानः प्राणांस्त्यक्तुमियेय च। बुबुध्वा च सोऽन्नदातास्य वणिगन्यै सहायिनौ॥१४०॥ स तं जगाद किं ब्रह्मन् ! वित्तहेतोर्मुमूर्षसि। अकारुणेभवद् वित्तमकस्मादेति याति च॥१४१॥ इत्यायुक्तोऽपि तेनासौ न जहौ मरणग्रहम्। प्राणेभ्योऽप्यर्थमात्रा हि कृपणस्य गरीयसी॥१४२॥ ततश्च मृत्यवे तीर्थं गच्छतोऽस्य द्विजन्मनः। स्वयं प्रसेनजिद्राजा तद्बुद्धवान्तिकमाययौ॥१४३॥ पप्रच्छ चैनं किं किञ्चिद्वेत्सि तत्राप्तसंज्ञकम्। यत्र भूमौ निखातस्ते दीनारा ब्राह्मण! त्वया॥१४४॥ तच्छ्रुत्वा स द्विजोऽवादीदस्ति क्षुद्रोऽत्र पादपः। अटव्यां देव तन्मूले निखातं तन्मया धनम्॥१४५॥ इत्याकर्ण्याब्रवीद्राजा दास्याम्यन्विष्य तत्तव। धनं स्वकोषादथवा मा त्याक्षीर्जीवितं द्विज॥१४६॥ इत्युक्त्वा मरणोद्योगात्निवार्य विनिधाय च। द्विजं तं वणिजो हस्ते स राजाभ्यन्तरं ययौ॥१४७॥