कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 833 of 876
Read in context७०४ कथासरित्सागर ततः समन्त्रिके राज्ञि गते सात्र विवेशगा । मृगीव यूथविभ्रष्टा परित्यक्तस्वबान्धवा ॥२०७॥ सम्भोगविस्त्रस्तपत्रमुक्ता वा गजपीडिता । पद्मिनीव परिक्षिप्तकवरीभ्रमरावलिः ॥२०८॥ विनष्टकन्यकाभावा निरुपायक्रमा सती । कलिङ्गसेना गगनं वीक्षमाणेदमब्रवीत् ॥२०९॥ वत्सेशरूपिणा येन परिणीतास्मि केनचित् । प्रकाशं सोऽस्तु कौमारः स एव हि पतिर्मम ॥२१०॥ एवं तयोक्ते गगनात्सोऽत्र विद्याधराधिपः । अवतारदिव्यरूपो हारकेयूरराजितः ॥२११॥ को भवानिति पृष्टश्च तयैवं स जगाद ताम् । अह मदनवेगाख्यस्तन्वि विद्याधराधिपः ॥२१२॥ मया च प्राग्विलोक्य त्वां पुरा पितृगृहे स्थिताम् । त्वत्प्राप्तिदस्तपं कृत्वा वरः प्राप्तो महेश्वरात् ॥२१३॥ वत्सेश्वरानुरक्ता च तद्रूपेण मया द्रुतम् । प्रवृत्तद्विवाहैव परिणीतासि युक्तितः ॥२१४॥ इति वाक्सुधया तस्य श्रुतिमार्गप्रविष्टया । किञ्चित्कलिङ्गसेनाभूदुच्छ्वासितहृदम्बुजा ॥२१५॥ अथ स मदनवेगस्तां समाश्वास्य कान्तां विहितधृतिवितीर्णस्वर्णराशिं च तस्मै । उषित इति तथान्तर्वेश्मसद्मसु भक्तितः पुनरुपगमनाय द्यां तदैवोत्पपात ॥२१६॥ दिव्याम्प्य स्वपतिमथ न मरणगम्यं धामात्पितृभवनमुज्झितमित्यवेक्ष्य । तत्रैव वस्तुमथ सापि कलिङ्गसेना चक्रे मतिं मदनवेगकृताभ्यनुज्ञा ॥२१७॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमञ्चुकालम्बके सप्तमस्तरङ्गः ।