BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 843 of 876

Read in context
Page 843

०८४ कथासरित्सागर इति राज्ञोदिते प्राह मन्त्री यौगन्धरायणः । श्रूयते देव यत्त्वत्रे रतिर्दग्धे स्मरे पुरा ॥५९॥ मर्त्यलोकावतीर्णेन सशरीरेण सङ्गमः । मर्त्यभावगतायास्ते स्वेन भर्त्रा भविष्यति ॥६०॥ इति शापाद् वरं शर्वो रत्यै स्वपतिमीप्सवे । कामावतारश्चोक्तः प्राग्विद्युन्माचा सुतस्तव ॥६१॥ रत्यावतरणीयं च मर्त्यभावे सुराङ्गना । गर्भग्राहिकया चाद्य ममैव वर्णितं रहः ॥६२॥ मया कलिङ्गसेनाया गर्भे प्राग्गर्भसम्पदा । युक्तो दृष्टस्तदैवाम्यन्तरूयं तद्विवर्जितम् ॥६३॥ तदाश्चर्यं विलोक्याहं तवाख्यातुमिहागता । इति स्त्रिया यथोक्तं मे जातैषा प्रतिभाति ते ॥६४॥ तज्जाने मायया देव्याः सैषा रतिरयोनिजा । कलिङ्गसेनातनया गर्भवीर्येण निर्मिता ॥६५॥ भार्या कामावतारस्य पुत्रस्य तव भूपते । तथा चात्र कथामेतां यदासम्बन्धिनीं शृणु ॥६६॥ भृत्यो वैश्रवणस्याभूद्विरूपाक्ष इति श्रुतः । यक्षो निधानरक्षाणां प्रधानाध्यक्षतां गतः ॥६७॥ मथुरायां बहिसंस्थं निधानं स च रक्षितुम् । यक्षं नियुक्तवानेकं शिलास्तम्भमिवापरम् ॥६८॥ तत्र छत्रग्रहीवासी कश्चित्पाशुपतो द्विजः । निधानान्वेषणोपायात् गन्त्यवादी कणाशनः ॥६९॥ स मानुषवसादीपहस्तो यावत्परभ्रमात् । स्थानं तावत्तस्यात्र कराद्दीपः पपात सः ॥७०॥ रुदाशेन च तेनात्र स्थितं निधिमवेत्य सः । उद्घाटयितुमारेभे महाम्यैः गणिभिर्द्विजैः ॥७१॥ अथ योऽसौ नियुक्तोऽभूद्यक्षो रक्षाविधौ स तत् । दृष्ट्वा गत्वा यथावस्तु विरूपाक्षं व्यजिज्ञपत् ॥७२॥ गच्छ व्यापाद्य क्षिप्रं धूर्तान्तान्मययाविदः । इत्यादिदेश तं यक्षं विरूपाक्षः स शासनः ॥७३॥