कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 871, कुल 876 में से
संदर्भ में पढ़ें८१२ कथासरित्सागर यदि युगपदिहेन्दुमूर्तिमान् कनकगिरिं भ्रमतोऽभितः कदाचित् । भवति तदुपमा तयोस्तदानीं जगति वधूवरयोः प्रदक्षिणेऽग्नेः ॥२५६॥ यथा विवाहोत्सवतूल्यनादा नपोधमन्दन्दुभयोऽन्तरिक्ष । तथा वधूत्सारितहोमलाजाः सुरोज्झिताः कौसुमवृष्टयोऽत्र ॥२५७॥ सत कनकराशिभिर्मणिमयैश्च जामातर समर्धयदुदारधीः किल शशिकूसेना तया। यथात्र बुबुधे जनैरपि सुदुर्गंतोऽस्या पुरः स काममलकापतिः कृपणभूभृताऽन्ये तु के ॥२५८॥ निष्पन्नावृद्यचिराभिमतस्यानुरूप— पाणिग्रहोत्सवविधौ च वधूवरौ तौ। अभ्यन्तरं विविशतुः प्रमदोपरुद्धं लोकस्य मानसमिवामलचित्रमक्ति ॥२५९॥ सङ्वाहिनीपरिगतैरपि विश्ववन्द्य शौर्याधितैरपि जितावनतैर्नरेन्द्रैः। सा वारिराशिभिरिवाशु पुरी पुपूरे वत्सेश्वरस्य सवुपायनरत्नहस्तैः ॥२६ ॥ अनुजीबिजनाय सोऽपि राजा व्यकिरद्धेम तथा महोत्सवेऽस्मिन् । यदि परमभवन्न जातरूपा जननीगर्भंगता यथास्य राष्ट्रे ॥२६१॥ वरचारणनर्तकीसमूहैर्विविधदिगन्तसमागतैस्तदात्र। परितः स्तवनृत्तगीतवाद्यैर्बुबुधे तन्मय एव जीवलोकः ॥२६२॥ वातोद्धूतपताकाबाहुलसा नोरुखेऽत्र कौशाम्बी। सापि ननर्तेव पुरी पौरस्त्रीरचितमण्डनाभरणा ॥२६३॥