BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 91 of 876

Read in context
Page 91

कथासरित्सागर किमेतदिति पप्रच्छ मामाहूय स तत्क्षणम्। अहं च द्वे निजाङ्गुल्यौ दिशि तस्यामदर्शयम् ॥१९॥ तेन तस्मिंस्तिरोभूते हस्ते राजातिविस्मयात्। भूयोऽपि तदपृच्छन्मां ततश्चाहं समब्रवम् ॥२०॥ पञ्चभिर्मिलितैः किं यज्जगतीह न साध्यते। इत्युक्तवानसौ हस्तः स्वाङ्गुलीः पञ्च दर्शयन् ॥२१॥ ततोऽस्य राजन्नङ्गुल्यावते द्वे दर्शिते मया। ऐकचित्ये द्वयोरेव किमसाध्यं भवेदिति ॥२२॥ इत्युक्त गूढविज्ञाने समतुष्यत्ततो नृपः। शकटासो ऽप्यपीदक्ष्वं मद्बुद्धिं वीक्ष्य दुर्जयाम् ॥२३॥ ! एकदा योगनन्दश्च दृष्टवान्महिषीं निजाम्। वातायनात्प्राप्स्यन्तीं ब्राह्मणातिथिमुन्मुखम् ॥२४॥ तन्मात्रादेव कुपितो राजा विप्रस्य तस्य सः। आदिदेशवधमीर्ष्या हि विवेकपरिपन्थिनी ॥२५॥ हन्तुं वध्यभुवं तस्मिन्नीयमाने द्विज तथा। अहसद्गतजीवोऽपि मत्स्यो विपणिमध्यगः ॥२६॥ तदव राजा तद् बुद्ध्वा वधं तस्य न्यवारयत्। विप्रस्य मामपृच्छच्च मत्स्यहासस्य कारणम् ॥२७॥ निरूप्य कथयाम्येतदित्युक्त्वा निर्गतं च माम्। चिन्तितोपस्थितान्ते सुरस्वयमब्रवीत् ॥२८॥ अस्य तालतरोः पृष्ठे तिष्ठ रात्रावलक्षितः। अत्र श्रोष्यसि मत्स्यस्य हासहेतुमसंशयम् ॥२९॥ तच्छ्रुत्वा निशि तत्राहं गत्वा तालोपरि स्थितः। अपश्यं राक्षसीं घोरां बालैः पुत्रैः सहागताम् ॥३०॥ सा भक्ष्यं याचमानांस्तानब्रवीत्प्रतिपाल्यताम्। प्रातर्वो विप्रमांसानि दास्याम्यद्य हतो न सः ॥३१॥ कस्मात्स न हतोऽद्येति पृष्टा तैरब्रवीत्पुनः। तं हि दृष्ट्वा मृतोऽपीह मत्स्यो हसितवानिति ॥३२॥ हसितं किमु तनेति पृष्टा भूयः सुतैश्च सा। अद्योपहासासीद् राज्ञः सर्वा रात्रोऽपि निष्कृता ॥३३॥