BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 97 of 876

Read in context
Page 97

५२ कथासरित्सागर इत्युक्त्वान्तर्हिते तस्मिन्यथागतमगामहम्। एवमापत्सहायो मे राक्षसो मित्रतां गतः ॥५४॥ इत्युक्तवानहं भूयः शकटालेन याचितः। गङ्गामदर्शयं तस्मै मूर्त्तां ध्यानादुपस्थिताम् ॥५५॥ स्तुतिभिस्तोषिता सा च मया देवी शिरोदृशा। बभूव शकटालश्च सहायः प्रणतो मयि ॥५६॥ एकदा च स मंत्री मां गुप्तस्थः सिद्धमब्रवीत्। सर्वथेनापि खेदाय किमात्मा दीयते त्वया ॥५७॥ किं न जानासि यद्राज्ञामविचाररता धियः। अचिराच्च भवेच्छुद्धिस्तथा चात्र कथां शृणु ॥५८॥ आदित्यवर्मनामात्र बभूव नृपतिः पुरा। शिववर्म्माभिधानोऽस्य मन्त्री चाभून्महामतिः ॥५९॥ राज्ञस्तस्यैकदा चका राज्ञी गर्भमधारयत्। तद्बुद्ध्वा स नृपोऽपृच्छदित्यन्तःपुररक्षिणः ॥६०॥ अपंसाय प्रविष्टस्य वर्ततेऽन्तःपुरऽथ मे। तदेषा गर्भसम्भूतिः कुतः सम्प्रति कथ्यताम् ॥६१॥ अथोचुस्ते प्रवेशोऽत्र पुंसोऽन्यस्यास्ति न प्रभो! शिववर्म्मा तु ते मन्त्री प्रविशत्यनिवारितः ॥६२॥ तच्छ्रुत्वाचिन्तयद्राजा नूनं द्रोही स एव मे। प्रकाशं च हते तस्मिन्नपवादो भवेन्मम ॥६३॥ इत्यालोच्य स च युक्त्या शिववर्माणमीश्वरः। सामन्तस्यान्तिकं शत्र्योः प्राहिणोद् भोगवर्मणः ॥६४॥ तद्वधार्थं तस्य लेखेन सन्दिद्य तदनन्तरम्। निगूढं च नृपस्तत्र सप्रहारं व्यसर्जयत् ॥६५॥ याते मन्त्रिणि सप्ताहे गते भीत्या पलायिता। सा राज्ञी रक्षिभिलंघ्या पुंसा स्त्रीरूपिणा सह ॥६६॥ आदित्यवर्मा तद्बुद्ध्वा सानुतापोऽभवत्ततः। धिङ् मया तादृशो मन्त्री घातितोऽकारणादिति ॥६७॥ अत्रान्तरं स च प्राप निकटं भोगवर्मणः। शिववर्म्मा स योगात्साङ्गमपश्यत् पूरणं ॥६८॥