कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 101, कुल 1079 में से
संदर्भ में पढ़ें८ कथासरित्सागर ततः स विक्रमादित्योऽसिद्धकार्यो व्यचिन्तयत् । शस्त्रेरजय शत्रुं स जयामि प्रज्ञया वरम् ॥१५॥ कामं कश्चिद्विगर्हन्तां मा प्रतिज्ञाम्यथा तु भूत्। इति सञ्चिन्त्य निक्षिप्य राज्यं याम्येषु मन्त्रिषु ॥१६॥ निर्गत्य नगराद् गुप्त मुख्येनेकेन मन्त्रिणा । सह वज्रवराख्येन राजपुत्रवरैस्तथा ॥१७॥ पञ्चभिः कुलजैः शूरैः स कार्पटिकवेषभृत् । भूत्वा पुरं निजरिपोः प्रतिष्ठानं जगाम तत् ॥१८॥ तत्र वारविलासिन्या नरेन्द्रसदनोपमम् । ययौ मदनमालेति ख्याताया वरमन्दिरम् ॥१९॥ कृताह्वानमिव प्रांशुप्रकारशिखरोच्छ्रितैः । ध्वजांशुकैर्मृदुमयैर्विक्षिप्ताक्षिप्तपल्लवैः ॥२०॥ प्रधाने पूर्वदिग्द्वारे विविधाग्रुधशालिनाम् । गुप्तं सहस्रद्वितया पदातीनां दिवानिशम् ॥२१॥ अन्यासु दिक्षु तिसृषु द्वारि द्वारि मदोद्धतैः । दशभिर्दशभिः शूरसहस्रैरभिरक्षितम् ॥२२॥ आव्रजितं प्रतीहारस्तथामूत प्रविश्य च । क्वचित्प्रथितवेतानेकवराश्वश्रेणिशोभितम् ॥२३॥ क्वचिद्धावन्मातङ्गभटासङ्घटसञ्चरम् । क्वचिद्यायुधसन्दर्मगम्भीराकारगुम्भितम् ॥२४॥ क्वचिद् रत्नप्रभाभास्वद्बहुकोशगृहाज्वलम् । क्वचित्सेवकसङ्घातसन्ततायतमण्डलम् ॥२५॥ क्वचित्युच्चैः पठद्वन्दिबुन्दकोलाहलाकुलम् । क्वचिन्निबद्धसङ्गीतमुवङ्गध्वनिनादितम् ॥२६॥ सप्तकक्ष्याविभक्तं तत्स पश्यन् सपरिच्छदः । प्रापन्मदनमालाया वासप्रासादमुन्नतम् ॥२७॥ सा तं कक्ष्यासु साकूतनिर्वर्णिंतहृयादिकम् । श्रुत्वा परिजनान् मत्वा प्रच्छन्नं कञ्चिदद्भुतम् ॥२८॥ प्रत्युद्गम्य प्रणम्यासौ साभिलाषं सकौतुकम् । राजोचिते प्रवेश्यान्तस्तमुपावेशयदासने ॥२९॥