कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 1012, कुल 1079 में से
संदर्भ में पढ़ें१५४ कथासरित्सागर क्व ते भर्तेति पप्रच्छ स च तां तस्य गेहिनीम्। साप्यदत्तोत्तरा तस्य प्राविशद्भर्तुरन्तिकम् ॥१४५॥ आख्यातमित्रागमना सोऽपि भार्या जगाद ताम्। उपविश्येह रुदती पादावादाय तिष्ठ मे ॥१४६॥ भर्त्ता म मृत इत्येव वदेरेष सुहृद् मम। शठो गतेऽस्मिन्नावाभ्यां भोक्तव्या क्षीरिणी सुखम् ॥१४७॥ इत्युक्ता तन यावत्सा प्रवृत्ता रोदितुं तथा। तावत् प्रविश्य सोऽपृच्छत्किमवेविति तां सुहृत् ॥१४८॥ भर्त्ता मृतो म पश्येति तयोक्तः स व्यचिन्तयत्। क्व पचन्ती मया दृष्टा सुसिता क्षीरिणीमियम् ॥१४९॥ क्वाधुनैव विपन्नोऽयमवङ्भर्त्ता बिना रुजम् नूनं मां प्राघुणं दृष्ट्वा कृतमाभ्यामिदं मृषा ॥१५०॥ तन्मया नैव गन्तव्यमित्यालोच्योपविश्य सः। धूर्त्तो हा मित्र हा मित्रेत्याक्रन्दस्तत्र तस्थिवान् ॥१५१॥ [L16: श्रुताक्रन्दाः प्रविश्यात्र बान्धवा मृतवत्स्थितम्। श्मशानं भोटटक्कं स नेतुमासन् समुद्यताः ॥१५२॥ उत्तिष्ठ बान्धवैर्यावदेतैर्नीत्वा न बध्यसे। इत्युपांश्ववदत् कर्णमूले भार्या तदा च तम् ॥१५३॥ मैवं शठोऽस्य टक्को मे क्षीरिणीं भोक्तुमिच्छसि ॥ नोत्तिष्ठामि तदेतस्मिन्नगतेऽङ्ग मृतो यदि ॥१५४॥ प्राणेभ्योऽप्यन्नमुष्टिर्हि मादृशानां गरीयसी। इति प्रत्यब्रवीद् भार्यामुपांश्व स तां जडः ॥१५५॥ ततस्तेन कुमित्रेण नीत्वा तं स्वजनश्च सः। दह्यमानोऽपि निर्दग्धो ददौ नामरणाद्वचः ॥१५६॥ एवं स मूढो विजहौ प्राणान्न क्षीरिणीं पुनः। कलहार्जितं च बुभुजे तस्यान्यहँस्तया पुनम् ॥१५७॥
मार्जारमूषकस्य कथा श्रुतं रूपं शृण्वताममी मार्जारभीतकाः। उज्जयिन्यामुपाध्यायो मुग्धः कोऽप्यभवन् मठे ॥१५८॥ तत्र निद्रा न तस्याभून्मूषकोपद्रवान्निशि। तस्मिंस्तस्य सुहृदे स कस्मैचिदवर्णयत् ॥१५९॥