BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 1016 of 1079

Read in context
Page 1016

[Header] १५८ कथासरित्सागर ततो विहस्य सोऽवादीद्विप्रो मूढाः क्व मानुषः। क्व च तिर्यक्स मार्जारश्चतुष्पात् पुच्छवानपि ॥१७४॥ तच्छ्रुत्वा तं वटुं मुक्त्वा तेऽब्रुवन्मन्दबुद्धयः। तद्गान्विष्यानयामस्तं मार्जारं तादृशं पुनः ॥१७५॥ एवमुक्तवतो मूढाञ्जनस्तत्र जहास तान्। अज्ञता नाम कस्येह नोपहासाय जायते ॥१७६॥ मार्जारमोतः कथितः श्रूयतामपरेऽप्यमी। आसीद् बहूनां मुग्धानां मुख्यो मुग्धो मठे क्वचित् ॥१७७॥ स केनचिद्वाच्यमानाद्धर्मशास्त्रात् कदाचन। तडागकर्त्तुरक्षोपीदमत्र सुमहत् फलम् ॥१७८॥ ततः स धनसम्पूर्णो विपुलं वारिपूरितम्। तडागं कारयामास नातिदूरे निजान्मठात् ॥१७९॥ एकदा स तडागं तं द्रष्टुं मुग्धाग्रणीर्गतः। केनाप्युत्पाटितान्यस्य पुलिनानि व्यलोकयत् ॥१८०॥ तथैवागत्य सोऽन्येद्युरुत्खातं तटमन्यतः। दृष्ट्वा तस्य तडागस्य सोद्वेगं समचिन्तयत् ॥१८१॥ प्रातः प्रभातादारभ्य स्थास्यामीहैव वासरम्। द्रक्ष्यामि कः करोत्येतदित्यालोच्य ययौ प्रगे ॥१८२॥ अन्येद्युर्यावदेत्यास्ते तावत्तत्र ददर्श सः। दिवोऽवतीर्य शृङ्गाभ्यां खनन्तं वृषभं तटम् ॥१८३॥ दिव्यो वृषोऽयं तत्किं न दिवं यामि सहामुना। इत्युपेत्य वृषस्यास्य हस्ताभ्यां पुच्छमग्रहीत् ॥१८४॥ सतं पुच्छाप्रलम्बं च भीतमुत्क्षिप्य वेगतः। क्षणाभिनाय नभसः स्वं धाम भगवान् वृषः ॥१८५॥ तत्र दिव्यानि भक्ष्याणि मोदकादीन्यवाप्य सः। मुञ्जानो न्यवसद् भीतो दिनानि कतिचित् सुखम् ॥१८६॥ गतागतानि कुर्व्वाणं स दृष्ट्वा तं महावृषम्। अचिन्तयत भीतानां मुख्यो दैवेन मोहितः ॥१८७॥ गच्छामि वृषपुच्छाग्रलम्बं पश्यामि बान्धवान्। कथयित्वाऽमृतमिदं तथैवेष्याम्यहं पुनः ॥१८८॥ इति सञ्चिन्त्य वृषमस्यैकदोपेत्य तस्य सः। आलम्ब्य गच्छतः पुच्छमागाद् भीतो भुवंस्तलम् ॥१८९॥