कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 1018, कुल 1079 में से
संदर्भ में पढ़ें९६ कथासरित्सागर ततः प्राप्तो मठे भौटैरन्यैराश्लिष्य तत्स्थितैः । क्व गतोऽसीति पृष्टस्तं स्ववृत्तान्तं शशंस सः ॥१९०॥ ततः सर्वे श्रुताश्चर्या भीतास्ते प्रार्थयन्त सम्। प्रसीद नय तत्रास्मानपि भोजय मोदकान् ॥१९१॥ तच्छ्रुत्वा स तथेत्येतान् युक्तिमुक्त्वापरे दिने । तडागोपान्तमनयत् स च तत्राययौ वृषः ॥१९२॥ जग्राह तस्य लाङ्गूलं मुख्यः पाणिद्वयेन सः । तस्याप्यगृह्णाच्चरणौ न्यस्तस्तस्यापि चेतरः ॥१९३॥ इत्यन्योन्याङ्घ्रिलग्नैस्तैर्मौटैर्यावच्च शृङ्खला । रचिता स वृषस्तावदुत्पपात नभःस्थलम् ॥१९४॥ याति तस्मिंश्च वृषभे लाङ्गलालम्बिभौटके१ । मुख्यमेश्रं तमप्राक्षीदेको मौटोऽथ दवत२॥१९५॥ अद्धामाख्याहि नस्तावदथेष्टसुरभा दिवि । कियत्प्रमाणा भवता मोदका भक्षिता इति ॥१९६॥ ततो हृष्टामुनन्द्यानो वृषपुच्छं विमुच्य तम् । पद्माकारौ करौ कृत्वा संस्प्रिष्टौ मौठनायकः ॥१९७॥ इयत्प्रमाणा इत्याशु यावत्तान प्रतिवक्ति सः । तावत्सोऽन्ये च ते सर्वे क्षितिपेत्य विपदिरे ॥१९८॥ वृषः प्रायाच्च कैलास जनो दृष्ट्वा जहास च । दोषाय निर्विमर्षैव भौतप्रश्नोत्तरक्रिया ॥१९९॥ श्रुता दुगामिनो मौटाः श्रूयतामपरोऽप्ययम्। कश्चिद् भौतो विसस्मार मार्ग मार्गान्तरं व्रजन् ॥२००॥ तरोर्नदीतटस्थस्य गच्छास्योपरिवर्त्मना । इत्युच्यते स्म पन्थानं परिपृच्छञ्जनेन सः ॥२०१॥ ततस्तस्य तरोः पृष्ठं गत्वास्त्वः स मूर्खधीः । एतत्पृष्ठेन मे पन्था उपदिष्टो जनैरिति ॥२०२॥ सत्पृष्ठे सर्पवक्षास्य भरात्पर्यन्तवर्तिनी । शाखा ननाम यत्नेन पपातालम्ब्य नैप याम् ॥२०३॥ १ लाङ्गूले=पुच्छे, मालम्बिनः=सम्बद्धानां भौटाः=मूर्खास्तस्यतस्मिन् वृषभविशेषण २ दैववशादित्यर्थः ।