कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 1040, कुल 1079 में से
संदर्भ में पढ़ें१८ कथासरित्सागर तस्मिन् विपन्ने भ्रातास्य वृषशूङ्गोऽथ सो मृतः । सोऽथ कन्यां कुटुम्बी तां नाम्ना चक्रे त्रिमार्किकाम् ॥८०॥ त्रयोऽनया सुलक्षणया ज्ञातया मारिता इति । कालेन यौवनस्थां तां पितुस्तस्मादयाचत ॥८१॥ त्रिमार्किकामाढ्यपुत्रः कश्चित्सद्ग्रामसम्भवः । पिता च तस्मै प्रादात्तां स यथावत्कृतोत्सवः ॥८२॥ तेन भर्त्रा सहारंस्त कालं कमपि तत्र सा। अचिराच्च ततस्तस्याः स भर्ता पञ्चतामगात् ॥८३॥ दिवसैरेव सा चान्यं चपला पतिमग्रहीत् । सोऽप्यल्पेनेव कालेन विपत्तिं प्राप तत्पतिः ॥८४॥ ततः सा यौवनोन्मत्ता तृतीयं पतिमाववे । सोऽपि तस्या विपन्नोऽभूत्प्रविश्या पतिरन्यवत् ॥८५॥ एवं क्रमेण पतयो दश तस्या विपदिरे । ततो हास्येन सा नाम्ना पप्रथे दशमार्किका ॥८६॥१ अथान्यभर्तृस्वीकारात्पित्रा ह्रीतेन वारिता । सा वर्ज्यमाना च जनैस्तस्थौ तस्य पितुर्गृहे ॥८७॥ एकदा च विवेशात्र पान्थो भव्याकृतिर्युवा । एकरात्रिनिवासार्थं तत्पित्राऽनुमतोऽतिथिः ॥८८॥ तं दृष्ट्वा तद्गतमनाः साभवद्दशमार्किका । पान्थोऽपि तरुणीं दृष्ट्वा सोऽभूत्तदभिलाषुकः ॥८९॥ ततः सा मारमुषितत्रपा पितरमभ्यधात् । एकमेतमहं तात वृणोमि पथिकं पतिम् ॥९०॥ विपत्स्यते यदप्येष ग्रहीष्यामि ततो व्रतम् । एवं शृण्वति पान्थे तां ब्रुवतीं स पिताऽब्रवीत् ॥९१॥ मा पुत्रि लज्जा महती दश ते पतयो मृताः । तवेतेस्मिन्नपि मृते हसिष्यतितरां जनः ॥९२॥ तच्छ्रुत्वैव त्रपां त्यक्त्वा पथिकोऽपि जगाद सः । नाङ्गे प्रिये दश मृताः क्रमाद्भार्या ममापि हि ॥९३॥ समावार्ता शपाम्यत्र पादस्पर्शेन धूर्जटेः । इत्युक्ते तेन पान्थेन नाधिच्रीयेत तत्र कः ॥९४॥ १ अस्मादग्रे पुस्तकान्तरे 'डाकिनी भर्तृमक्षयमिति लोकोऽब्रवीच्च ताम्' इत्यर्धमर्धं मधिकमस्ति ।