भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 1046, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 1046

१८४ कथासरित्सागर अन्यद्युश्च समं राज्ञा कथां कृत्वा तमेव सः। निर्गत्य धूर्त्तोऽवादीत् नियोगिनमुपागतम् ॥ १२५॥ युक्तियुक्तैर्मया वाक्यैस्तव राजा प्रसादितः। धीरो भवाधुनाहं ते सर्वच्छिद्रषु रक्षकः ॥ १२६॥ इति स्वीकृत्य स युक्त्या विससर्ज च सोऽपि तम्। अधिकारी सदा तैस्तैस्तूपचारैरुपाहरत् ॥ १२७॥ एवं क्रमेण सर्वेभ्यो नियोगिभ्यः स बुद्धिमान्। राज्येभ्यो राजपुत्रेभ्यः सवकर्म्येषु युक्तिभिः ॥ १२८॥ बह्वीभिराददानोऽप्यनिजग्राह सर्वतः। पञ्च कोटीः सुवर्णस्य कुर्वन् राजा समं कथाः ॥ १२९॥ ततो रहसि राजानं धूर्तमन्त्री जगाद सः। यच्च दत्वापि नित्यं ते दीनारशतपञ्चकम् ॥ १३०॥ त्वत्प्रसादान्मया प्राप्ताः पञ्च काञ्चनकोटयः। तत्प्रसीद गृहाणतत् स्वं स्वर्णमहमत्र कः ॥ १३१॥ इत्युक्त्वा प्रकटं राज्ञः कनकं सन्त्यवेदयत्। राजापि कृच्छ्रात्तत्तस्य जग्राहार्धं ततो धनात् ॥ १३२॥ तुष्टस्य स्थापयामास महामन्त्रिणवं स तम्। सोऽपि प्राप्य श्रियं धूर्त्तो दानभोगैरमानयत् ॥ १३३॥ एवं प्राप्नोति महत् प्राज्ञोऽप्याभातिपापतः। कूपस्नानकबत्प्राप्ते फले दोषं निहन्ति च ॥ १३४॥ इत्युक्त्वा गोमुखः प्राह वत्सराजसुतं पुनः। एकाभिदानीमुदाहृत्सोत्सुकः शृण्विमां कथाम् ॥ १३५॥ बभूव दुर्मदारातिकरीन्द्रकुलकेसरी। रत्नाकराख्ये नगरे नाम्ना बुद्धिप्रभो नृपः ॥ १३६॥ रत्नरेखाभिधानायां राज्ञ्यां तस्योपपद्यत। कन्या हेमप्रभा नाम सर्वलोकैकसुन्दरी ॥ १३७॥ सा च विद्याधरी शापादवतीर्णा यदा तदा। नभोविहारसस्कारमदान्वितक्रीड दोलया ॥ १३८॥ पातभीरुया निषिद्धापि सा छतो न घनाच्च यत्। तत्तस्याः स पिता राजा चपटं कुपितो ददौ ॥ १३९॥