कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 1048, कुल 1079 में से
संदर्भ में पढ़ें१८८ कथासरित्सागर तावता सावमानेन राजपुत्री मनस्विनी। विहारव्यपदेशेन जगामोपवनं बहिः॥१४०॥ पानमत्तेषु भृत्येषु सञ्चरन्ती च तत्र सा। प्रविश्य वृक्षगहनं तेषां दृष्टिपथमत्ययौ ॥१४१॥ गत्वा चैकाकिनी दूरं वनं विरचितोटजा। फलमूलाशिनी तस्थौ हराराधनतत्परा ॥१४२॥ तत्पितापि स राजा तां बुद्ध्वा क्वापि ततो गताम्। अन्वियेष न च प्राप महादुःखमुवाह च॥१४३॥ चिरात् किञ्चित्तनूभूतदुःखश्चित्तं विनोदयन्। बुद्धिप्रभः स निरगान्मृगयायै महीपतिः॥१४४॥ भ्रमंश्च दैवात्तत्राप सुदूरं स वनान्तरम्। तपस्यन्ती सुता सास्य यत्र हेमप्रभा स्थिता॥१४५॥ उटजं तत्र दृष्ट्वा स राजाभ्येत्य तदन्तरे। असंकृतं तपःक्षामां तां ददर्श निजां सुताम्॥१४६॥ सापि दृष्ट्वा समुत्थाय पादयोः सहसाग्रहीत्। आलिङ्ग्य च पिता तां च साश्रुरङ्के न्यवेशयत्॥१४७॥ तौ चान्योन्यं चिराद्दृष्ट्वा तथा रुरुदतुस्ततः। उदश्रवो यथा तत्र वनेऽभूवन् मृगा अपि॥१४८॥ ततः शनैः समाश्वास्य राजावोचत् स तां सुताम्। त्यक्त्वा राजश्रियं पुत्रि किमिदं विहितं त्वया॥१४९॥ तदेहि जननीपार्श्वं वनवासमिमं त्यज। इत्युक्तवांस्तं जनकं सा तं हेमप्रभाभ्यधात्॥१५०॥ दैवेनैव नियुक्तास्मि शक्तिस्तात ममात्र का। न चैष्यामि गृहं भोक्तुं न त्यजामि तपःसुखम्॥१५१॥ इति ब्रुवाणा सा तस्मान्निश्चयान्न चचाल यत्। तद्राजाकारयत्तस्या वने तत्रैव मन्दिरम्॥१५२॥ गत्वा च राजधानीं स्वां प्रेषयामास सोऽन्वहम्। तस्या अतिथिपूजाथं पक्वान्नानि धनानि च॥१५३॥ सा च हेमप्रभा तत्र धनैरन्नैश्च तैः सदा। पूजयन्त्यतिथीनासीत्फलमूलाशिनी स्वयम्॥१५४॥