भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 113, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 113

प्रविष्टा तत्र नाद्राक्षीत्प्रियं तं नृपतिं क्वचित् । अद्राक्षीत्तु महोच्छायान् सौवर्णान्युच्च पूरुषान् ॥८८॥ सान्दृष्ट्वा तमनासाद्य दुःखिता सा व्यचिन्तयत् । नूनं विद्याधरः कोऽपि गन्धर्वो वा स मे प्रियः ॥८९॥ यः संविभज्य मामेभिः पूमिरुत्पत्य खं गतः । तदेतैरतुलैः किं तद्वियुक्ता करोम्यहम् ॥९०। इति सञ्चिन्त्य पृच्छन्ती निजं परिजनं मुहुः । सत्तद्वृत्तिं विनिर्गत्य तत्र बभ्राम सर्वतः ॥९१॥ न च लेभे रतिं कापि हर्म्योद्यानगुहादिषु । विलपन्ती वियोगार्त्ता शरीरत्यागसम्मुखी ॥९२॥ मा विषादं कृथा देवि कोऽपि कामचरो हि सः । देवो यदृच्छया भूयो भव्यां त्वामभ्युपैष्यति ॥९३। इत्याविधिं प्रवृत्तारुशैवचनैः परिजनेन सा। आश्वासिता कथमपि प्रतिज्ञामकरोदिमाम् ॥९४॥ षण्मासमध्ये यदि मे न स दास्यति दर्शनम्। दत्तसर्वस्वा वह्नौ प्रवेष्टव्यं ततो मया ॥९५॥ इति प्रतिज्ञयात्मानं संस्थाप्याभूततश्च सा । अन्वहं ददती दानं ध्यायन्ती तं स्ववल्लभम् ॥९६॥ एकदा स्वर्णपुंसां च तेषामेकस्य सा भुजौ । छेदयित्वा द्विजातिभ्यो ददौ दानैकतत्परा ॥९७॥ द्वितीयेऽह्नि च साद्राक्षीत्साबुधावेव तस्य तौ । [L22: रात्रिमध्ये समुत्पन्नौ भुजौ सञ्जातविस्मया ॥९८॥ ततः क्रमज सान्येषां भुजौ दानार्थमच्छिनत् । उत्पदिरे च सर्वेषां पुनस्तेषां तथैव ते ॥९९॥ अथ तानक्षयान् दृष्ट्वा विप्रेभ्यो वेदसत्कृया । अभ्येतुभ्यो ददौ छित्वा तद्‌भुजान् सा शुभान्वहम् ॥१०० ॥ दिनेष्वल्पेष्वेवं गता दिक्षु श्रुत्वा तां ख्यातिमाययौ। तत्र संग्रामदत्ताख्या विप्रः पाटलिपुत्रकात् ॥१ १ १॥


१ प्रत्युक्तान् ।

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 113, कुल 1079 में से · BharatKosha