भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 115, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 115

९२ कथासरित्सागर

स दरिद्रश्चतुर्वेदो गुणैर्युक्तस्तदन्तिकम्। प्रतिग्रहार्थी प्राविक्षत्सदा द्वारस्थनिवेदितः ॥१०२॥ सा तस्मै वेदसंख्याकान् प्रदौ सौवर्णपुंगवान्। अर्चिताय व्रतक्षामैरङ्गैर्विरहपाण्डुरैः ॥१०३॥ ततः स विप्रो दुःखात्तच्छ्रुत्वा तत्परिवारितः। तद्वृत्तान्तं महाघोरप्रतिज्ञान्तमशपत् ॥१०४॥ हृष्टो विपणमारोप्य सौवर्णानुष्ट्रयोर्द्वयोः। गुञ्जानेतान्निवासं स्वं ययौ पाटलिपुत्रकम् ॥१०५॥ अराजरक्षिते क्षेमं नास्मिन् मे काञ्चने भवेत्। इति तत्र स सञ्चिन्त्य प्रविश्यास्थानवर्त्तिनम् ॥१०६॥ नृपतिं विक्रमादित्यं ब्राह्मणः स व्यजिज्ञपत्। इहैवास्मि महाराज वास्तव्यो नगरे द्विजः ॥१०७॥ सोऽहं दरिद्रो वित्तार्थी प्रयातो दक्षिणापथम्। प्राप्तः परं प्रतिष्ठां नरसिंहस्य भूपतेः ॥१०८॥ तत्र प्रतिग्रहार्थी सन् प्रख्यातयशसो गृहम्। अहं मदनमञ्च्या गणिकाया गतोऽभवम् ॥१०९॥ तस्याः सकाशे दिव्यो हि कोऽप्युषित्वा चिरं पुमान्। गतः क्वाप्यसंख्यान् दत्त्वा पुरुषान् पञ्च काञ्चनान् ॥११०॥ ततस्तद्विप्रयोगात्सा जीवितं विषवेदनाम्। देहं निष्फलमायासं माहारं घोरयातनाम् ॥१११॥ मन्यमाना गतधृतिः कथञ्चिदनुजीविभिः। आश्वास्यमाना व्यधित प्रतिज्ञां सा मनस्विनी ॥११२॥ यदि षण्मासमध्ये मां न स सम्भावयिष्यति। समयान्ते प्रवेष्टव्यं दीप्ताग्न्योपहतान्मया ॥११३॥ इति बद्धप्रतिज्ञा सा मरणाध्यवसायिनी। यदाप्यनुदिनं दानं सुमहत्सुकृतेषिणी ॥११४॥ सा च दृष्टा मया देव विशुद्धरूपसंस्थितिः। अनाहारकृशेनापि शरीरेणातिशोभिता ॥११५॥ दानतोयार्द्रितकरा मिलितालिकुलाकुला। दुःस्थिता कामवरिणो मदावस्थेव देहिनी ॥११६॥