कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 119, कुल 1079 में से
संदर्भ में पढ़ें५६ कथासरित्सागर तन्निमे नरसिंहोऽयमजेयोऽप्रतिमस्ती बलैः । द्वन्द्वयुद्धेन च मया साकमय नियुध्यसे ॥१३२॥ भूचर धुधरो भूत्वा न चैन कृतवानहम्। अधर्मयुद्धेन जय को हीच्छेत्क्षत्रियो भवन् ॥१३३॥ तन्मे प्रतिज्ञासाध्य यद्बन्धिभिर्द्वारवर्तिन । आश्वदन् नृपस्यास्य तत्र साहायक कुरु ॥१३४ एतच्छ्रुत्वैव धन्यास्मीत्युक्त्वा राज्ञामूना सह। समन्त्र्य गणिकाथ स्वानाहूयोवाच बन्दिनः ॥१३५॥ नरसिंहो यदा राजा गृहमेष्यति मे तदा। द्वारसन्निहितैर्भाव्य भवद्भिर्दत्तदृष्टिभिः ॥१३६॥ देव भक्तोऽनुरक्तश्च नरसिंहनृपस्त्वयि। इति वाच्य च युष्माभिस्तस्य प्रविशतो मुहुः ॥१३७॥ कः स्थितोऽत्रति यदि च प्रक्ष्यत्युत्प्रेक्ष्य तत्क्षणम्। स्थितोऽत्र विक्रमादित्य इति वक्तव्य एव सः ॥१३८॥ इत्युक्त्वा तान्विसृज्याथ प्रतीहारी जगाद सा। नरसिंहो न राजात्र निवेश्यः प्रविशन्निति ॥१३९॥ एव कृत्वा पुन प्राप्तप्राणनाथा यथासुखम्। तस्थौ मदनमाला सा नि सस्य वदती यस्तु ॥१४०॥ तत श्रुत्वातिदान तत्सौवर्णपुरुषोद्भवम्। नरसिंहनृपो हित्वाप्यागाद्द्रष्टु स तद्गृहम् ॥१४१॥ प्रतीहारानिषिद्धस्य तस्य प्रविशतोऽत्र च। भा बहिर्द्वारसिस्तारमूबू घर्मेऽपि बन्दिनः ॥१४२॥ नरसिंहो नृपो देव प्रणतो भक्तिमागिति। तच्च शृण्वन्स सामर्ष सशङ्कश्चामवन्नृपः ॥१४३॥ पृष्ट्वा च कः स्थितोऽत्रेति श्रुत्वा तत्र स्थित च तम्। राजानं विक्रमादित्य क्षणमेवमचिन्तयत् ॥१४४॥ तदिद प्राक्प्रतिज्ञात द्वारि मन्त्रिनिवेदनम्। निर्मूढममुना राज्ञा प्रसह्यान्त प्रविश्य मे ॥१४५॥ अहो राजायमोजस्वी येनाद्यैवमह जितः। न च बध्यो बलेनाद्यावेशकी मे गृहागतः ॥१४६॥