कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 163, कुल 1079 में से
संदर्भ में पढ़ें१४० कथासरित्सागर भद्र भवत्स्वमस्मासु कुशलश्छेति पृच्छ्यसे। अप्यस्ति काचिद्युक्तिः सा ययेयं वार्यते जरा ॥४७॥ तच्छ्रुत्वैव कलामात्रसारो वाञ्छन् स पूर्णताम्। वक्रस्तरुणचन्द्रोऽत सत्यनामा व्यचिन्तयत् ॥४८॥ मूर्खोऽयं नृपतिर्मोघ्यो मया वेत्स्यामि च क्रमात्। इति सञ्चिन्त्य स भिषक् तमेवमवदन्नृपम् ॥४९॥ एकस्त्वं गूढे मासानष्टौ यदिदमोषधम्। उपयुङ्क्षे ततो दव जरामपनयामि ते ॥५०॥ एतच्छ्रुत्वैव स नृपस्तद्भूगृहमकारयत्। क्षमन्ते न विचारं हि मूर्खा विषयलोलुपाः ॥५१॥ राजन् सत्त्वेन पूर्वेषां तपसा च दमेन च। रसायनानि सिद्धानि प्रभावेण युगस्य च ॥५२॥ अद्यत्वे च श्रुतान्येव रसान्येतानि भूपते। सामर्थ्याभावात् कुर्वन्ति यत्प्रत्युत विपर्ययम् ॥५३॥ तन्न युक्तमिदं धूर्ताः क्रीडन्त्येव हि बालिशैः। किं श्व समतिक्रान्तमागच्छति पुनर्वयः ॥५४॥ इत्यादि मन्त्रिणां वाक्यं न लेभे तस्य चान्तरम्। आवृते हृदये राज्ञो गाढया मोगतृष्णया ॥५५॥ विवेश च गिरा तस्य भिषजस्तत् स भूगृहम्। एकाकी वारिताशेषराजोचितपरिच्छदः ॥५६॥ एको वैद्यः स्वभृत्येन सहैकेनव तस्य सः। तत्रौषधादिचर्यायां बभूव परिचारकः ॥५७॥ तस्थौ च तत्र स नृपो भूमिगर्भे तमामय। अज्ञान इव भूयस्त्वात् प्रसूते ह्वययाद्वहिः ॥५८॥ गतेषु चात्र मासेषु षण्मापध्वस्य भूपतेः। विलोक्याभ्यधिकीभूतां तां जरां स शठो भिषक् ॥५९॥ आजहार वमप्येवं पुत्रं तावदृशाकृतिम्। राजानं त्वां करोमीति युवानं कृतमंविदम् ॥६०॥ तत गुरुद्धा भूगृहे दूरात्स्थाप्य तं नृपम्। गुप्तं कृत्वा तया नीत्या गोत्रपन्नृपेतिक्षिपत्प्रिति ॥६१॥