भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 17, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 17

१ कथासरित्सागर एवं दिनेषु गच्छत्सु तस्योद्वाढवशात्किल । अपुत्रताकृता राज्ञश्चिन्ता जात्वपद्यत ॥२७॥ तयातिषुर्मनस्कं च दृष्ट्वा पप्रच्छ स प्रिया । अलङ्कारप्रभा देवी दौर्मनस्यस्य कारणम् ॥२८॥ सत स राजावादीतां सर्वसम्पत्तिरस्ति मे । एक तु पुत्रो नास्तीति दुख मां देवि बाधते ॥२९॥ या मया प्रागपुत्रस्य पुंस सत्त्ववत कथा। श्रुता सरस्मरणोद्भाताश्चिन्तेषा चोद्गता मम ॥३०॥ कीदृशी सा कथा देवेत्युक्तो देव्या तया च स । राजा तस्यै कथामेवं संक्षेपातामवर्णयत् ॥३१॥ अथ सत्त्वशीलस्य कथा नगरे चित्रकूटाख्ये ब्राह्मणार्श्वनतत्पर । बभूव ब्राह्मणवरो नाम्नान्यर्थो महीपति ॥३२॥ तस्यासीत्सत्त्वशीलाख्यो जयी युद्धैकसेवक । मासे मासे च लेभे स तस्मात् स्वर्णशत नृपात् ॥३३॥ पर्याप्तं तच्च नैवाभूत्यागिनस्तस्य काञ्चनम् । अपुत्रत्वाच्च दानैकविनोदासक्तचेतस ॥३४॥ पुत्रो विनोदहेतुर्मे दत्तस्तावन येवसा । दत्त च दानम्यसम तदप्यर्थविनाकृतम् ॥३५॥ वरं जीनेस्य शूकस्य हरोर्जे मोपलस्य वा। न संसारे दरिद्रस्य त्यागैकव्यसनस्य च ॥३६॥ इति सञ्चिन्तयन्नित्यं सत्त्वशील स जातुचित् । उद्याने सञ्चरन् प्राप निधिं दैवात्कदाचन ॥३७॥ सभृत्यश्च तमादाय भूरिकाञ्चनभास्वरम्। महापरत्नरुचिरं निनाय प्रक्षनं गृहम् ॥३८॥ तत स भोगा भुञ्जाना ब्राह्मणेभ्या ददद्वसु । भृत्यभ्यश्च सुहृद्भ्यश्च बाधवास्तेत्र यात्रिक ॥३९॥ १