भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 197, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 197

१७० कथासरित्सागर ततोऽप्रतिहतौ वीरौ मिलितानेकपाथिवौ । जेतुं सिद्धप्रतापौ तौ जग्मतुर्दक्षिणां दिशम् ॥८६॥ तां च वार्तां तयोः श्रुत्वा पितरौ तौ ननन्दतुः । प्रज्वलापरमाता तु सान्तर्विद्वेषवह्निना ॥८७॥ एताभ्यां भुजदर्पेण पृथ्वीं जित्वा निहत्य माम् । राज्यं मदीयं स्वीकृतुं मत्पुत्राभ्यां विचिन्तितम् ॥८८॥ तद्यद्य मयि भक्ताश्चेदेतावत्र मत्सुतौ । अविचार्यैव युष्माभिनिहन्तव्यावुभावपि ॥८९॥ इति तत्कटकस्थेभ्यः सामन्तेभ्यस्ततः शठा । राजादेशं तथा रात्री तन्नाम्नेवाभिलिख्य सा ॥९०॥ सन्धिविग्रहकायस्थेनाहृतेनार्थसञ्चयैः । उपांशु काष्ठालङ्कारा व्यसृजल्लेखहारकम् ॥९१॥ स च गुप्तं तयोर्गत्वा कटकं राजपुत्रयोः । सामन्तेभ्यो ददौ तेभ्यस्तांल्लेखांल्लेखहारकः ॥९२॥ ते वाचयित्वा तान् सर्वे राजनीतिं सुकर्कशाम् । विचिन्त्य तां प्रभोराज्ञामनुलङ्घयामवेक्ष्य च ॥९३॥ रात्रौ मिलित्वा सम्मन्त्र्य निहन्तुं तौ नृपात्मजौ । विवक्षां निश्चयं चक्रुस्तद्गुणावर्जिता अपि ॥९४॥ तच्च बुद्ध्वैव तन्मध्यादेकस्य सुहृदो मुखात् । तौ स मातामहः मन्त्री राजपुत्रौ सह स्थितः ॥९५॥ बोधयित्वा यथातत्त्वमारोप्य वरवाजिनोः । अपसारितवान् गुप्तं तत्कालं कटकात्ततः ॥९६॥ तेनापसारितौ तौ च व्रजन्तौ निशि तद्रुतौ । विन्ध्याटवीं विविशतुर्मार्गाज्ञानान्नृपात्मजौ ॥९७॥ तत्र रात्रावतीतायां प्रभात् प्रत्यम्यतोस्तयोः । मध्याह्ने वितृषाशान्तौ हयी पञ्चत्वमापतुः ॥९८॥ स च मातामहो वृद्धः शुशुचाणुकवालुकः । व्यपद्यतातपक्लान्तो नान्तयोः पश्यतस्तयोः ॥९९॥ अनागसौ कथं पित्रा गमितौ स्वो दशांमिमाम् । गतामा कुर्वता शौ तौ दुष्टामपरमातरम् ॥१००॥