भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 203, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 203

१७४ कथासरित्सागर तस्थौ च वार्तामन्विष्यन् सततं पुत्रयोस्तयोः । तन्मात्रा सह दुःखार्तो धर्मसक्तोऽम्बिकां स्मरन् ॥११६॥ तावच्च राजपुत्रस्य तपसा सानुजस्य सा । तस्येन्दीवरसेनस्य तुष्टाऽभूद्विन्ध्यवासिनी ॥११७॥ दत्त्वा च खड्गं स्वप्ने सा साक्षादेवं तमादिशत् । अस्य प्रभावात् खड्गस्य शत्रूञ्जय्यसि दुर्जयान् ॥११८॥ चिन्तयिष्यसि यत्किञ्चित् तच्च सम्पत्स्यते तव । द्वावप्येतेन च युवामिष्टसिद्धिमवाप्स्यथः ॥११९॥ इत्युक्त्वाऽन्तर्हितायां च देव्यां तस्यां प्रबुध्य सः । तत्रेन्दीवरसेनस्तं हस्तस्थं खड्गमैक्षत ॥१२०॥ अथ खड्गेन तत्स्वप्नवर्णनेन च सोऽनुजम् । आश्वास्य चक्रे तद्युक्तः प्रातर्वन्येन पारणम् ॥१२१॥ ततः प्रणम्य देवीं तां तत्प्रसादबृहद्बलः । हृष्टस्तत्खड्गहस्तश्च समं भ्रात्रा ययौ ततः ॥१२२॥ गत्वा च दूरं स प्राप्वैकं पुरवरं महत् । कुर्वद्भि र्मेरुशिखरभ्रान्तिं हेममयैर्गृहैः ॥१२३॥ तत्र रौद्रं ददर्शैकं प्रतोलीद्वारि राक्षसम् । पप्रच्छ तं च वीरोऽस्य पुरस्याख्यां पतिं च सः ॥१२४॥ इदं शैलपुरं नाम नगरं राक्षसाधिपः । अध्यास्ते यमदंष्ट्राख्यः स्वामी नः क्षत्रुमर्दनः ॥१२५॥ इत्युक्ते रक्षसा तेन यमदंष्ट्रजिघांसया । तत्रेन्दीवरसेनोऽथ स प्रवेष्टुं प्रवृत्तवान् ॥१२६॥ निक्षिपन्तं च तं ज्ञात्वा राक्षसं स महाभुजः । एकखड्गप्रहारेण शिरश्छित्त्वा न्यपातयत् ॥१२७॥ तं हत्वा राजभवनं प्रविश्यान्तर्ददर्श सः । शूरः सिंहासनस्थं तं यमदंष्ट्रं निशाचरम् ॥१२८॥ वष्ट्राम्भोरुहमंसे वामपार्श्वस्थितवराङ्गनम् । आधितेतरपार्श्वं च कुमार्या दिव्यरूपया ॥१२९॥ दृष्ट्वा च सोऽम्बिकादत्तखड्गहस्तो रणाय तम् । माहूतवान् स चोत्तस्थौ खड्गमाकृष्य राक्षसः ॥१३ ॥