कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 211, कुल 1079 में से
संदर्भ में पढ़ें१८९ कथासरित्सागर मनोरथमिवारुह्य विमानं सिद्धमाशुमत् । आजगामोत्सुकोऽनिच्छासेनेन शैलपुरं स तत् ॥१७६॥ तत्र दृष्ट्वोत्थितं सद्यो लब्धसंज्ञं समभ्रजम्। जग्राह पादयोः साधु कण्ठे सोऽप्येनमग्रहीत् ॥१७७॥ त्वया नौ रक्षितो मर्त्येयमे ते पादयोस्ततः। निपत्य भ्रातृजाये तमनिच्छासेनमूचतुः ॥१७८॥ भयेन्दीवरसेनाय पृच्छते सोऽब्रवीत् सत्। ॥१७९॥ । नाक्रुप्यत्सङ्गवष्ट्राये भ्रातर्येस्मिंस्तुताव च ॥१८० ॥ क्षुभाव चेतस्य मुक्तात्पितरौ दर्शनोत्सुकौ। मायामपरमात्रा च कृतां तौ तद्वियोगदाम् ॥१८१॥ ततो मात्रापितं खड्गं गृहीत्वा तत्प्रभावतः । ध्यातोपनतमारुह्य विमानं शुमहच्च सः ॥१८२॥ सहेममन्दिरो भार्याद्वयेन सह सानुजः । तामिन्दीवरसेनः स्वां पुरीमागादिरावतीम् ॥१८३॥ तत्रावतीर्य नभसो विस्मयालोकितो जनैः । राजवेश्म पितुः पार्श्वं विवेश सपरिच्छदः ॥१८४॥ तथाभूतञ्च पितरं तं दृष्ट्वा मातरं च सः। पपात पादयोर्बाष्पधाराधौतमुखस्तयोः ॥१८५॥ तौ च तं सहसा दृष्ट्वा पुत्रमाश्लिष्य सानुजम्। अमृतेनेव सिक्ताङ्गौ तापनिर्वाणमीयतुः ॥१८६॥ दिव्यरूपे च तद्भार्ये कृतपादाभिवन्दने। स्नुषे उभे ते पश्यन्तौ हृष्टावभिननन्दतुः ॥१८७॥ कथाप्रसङ्गाद् बुद्ध्वा च तस्य ते पूर्वनिर्मिते । दिव्यशास्त्रमिते भार्ये मयतुस्तौ परां मुदम् ॥१८८॥ विमानगतिशीर्णेर्णमन्दिरानयनादिना । प्रभावेण सुतस्यास्य विस्मयं नन्रदतुः ॥१८९॥ ततस्ताभ्यां स सहितः पितृभ्यां सपरिग्रहः । आस्तेन्दीवरसेनोऽत्र प्रदत्तप्रमदोत्सवः ॥१९०॥