BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 215 of 1079

Read in context
Page 215

१८६ कथासरित्सागर तत्रैषा कलहासक्ता भार्यादित्यप्रभा तव। राक्षसी योनिमासाद्य त्वद्भार्यैव भविष्यति॥२०६॥ द्वितीया चन्द्रवत्येषा त्वयि रक्तातिवल्लभा। राजस्त्री राक्षसी भूत्वा भूमौ त्वां प्राप्स्यति प्रियम्॥२०७॥ सामिलाषोऽनुसर्तुं त्वां ज्येष्ठ यल्लङ्घितो मया। तन्मेष रूपसेनोऽपि भावी भ्रातैव तत्र ते॥२०८॥ द्विभार्यलंकृतं किञ्चिद्दुःखं तत्राप्यवाप्स्यसि। एवमुक्त्वा विरम्यत्य शापान्तमकरोत्स नः॥२०९॥ राजपुत्रो भुव जित्वा पृथ्वीं पित्रोः प्रदास्यसि। यदा तदा सहामीभिर्जातिं स्मृत्वा विमोक्ष्यसे॥२१०॥ इति पित्रोदितस्तन पद्मसेनो निजेन सः। तत्कालं सह तरन्यै मर्त्यलोकमवातरत्॥२११॥ स पद्मसेनस्तातायमहं जातः सुतस्तव। नाम्नेन्दीवरसेनोऽत्र कर्त्तव्य च कृत मया॥२१२॥ योऽपरो रूपसेनश्च विद्याधरकुमारकः। अनिच्छासेन इत्येष जातः सोऽनुज एव म॥२१३॥ या सादित्यप्रभा भार्या या च चन्द्रावतीति मे। विद्धि ते द्वे इमे खड्गदंष्ट्रामदनदंष्ट्रिके॥२१४॥ इदानीं चायमवधि प्राप्तः शापस्य सोऽप्य नः। तद्व्रजामो वय तात निजं वैद्याधरं पदम्॥२१५॥ इत्युक्त्वा स समं भार्याभ्रातृभिः स्पृष्टमात्रिभिः। त्यक्त्वैव मानुषीं मूर्ति भूत्वा विद्याधराकृतिः॥२१६॥ प्रणम्य पित्रोश्चरणौ कृत्वाङ्के दयिताद्वयम्। सानुजः प्रययौ व्योम्ना निज विद्याधर पुरम्॥२१७॥ तत्राभिनन्दितः पित्रा मुक्तसेनेन सन्मतिः। मातृनेत्रोत्सवो भ्रात्रा रूपसेनेन सङ्गतः॥२१८॥ उवास पद्मसेनोऽसौ भूयो नाविष्कृतेर्ष्यया। आदित्यप्रभया चन्द्रवत्या च सह निभृतः॥२१९॥