भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 235, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 235

२०६ कथासरित्सागर वारं तु पञ्चमेऽस्त्वेनं पतित्वोपरि ताडितः। अर्थलोमः स निश्चेष्टस्ततो भृत्यैरनीयत ॥१२५॥ ततः सुखधनः सर्वैः साधुवादाभिपूजितम्। स तं बाहुबला राजा यथोचितममानयत् ॥१२६॥ प्राभृतं च तदानीतं तस्मै एव समर्पयत्। अहरच्चार्थलोमस्य सर्वस्वमशुभार्जितम् ॥१२७॥ तत्पते सादरं कृत्वा तुष्टः प्रायात्स्वमन्दिरम्। निवृत्तपापसम्पर्काः सन्तो यान्ति हि निर्वृतिम् ॥१२८॥ सोऽपि प्रसङ्गं विहरन्नासीत्सुखधनः सुखम्। सदिक्षो मानपरया भार्यया चानुरक्तया ॥१२९॥ एवं दाराः पलायन्ते हीनसत्त्वाद्धनानि च। सुसत्त्वस्योपनिष्ठन्ते स्वयमेत्य यतव्रत ॥१३०॥ तदलं चिन्तया निद्रां भजस्व नचिरेण हि। राजपुत्रीमवाप्तासि त्वं तां कर्पूरिकां प्रभो ॥१३१॥ इति राज्यधराच्छ्रुत्वा रात्रौ तत्रार्थवद्वचः। नरवाहनदत्तः स भेजे निद्रां सगोमुखः ॥१३२॥ प्रातश्चात्र कृताहारः क्षणं यावत्स तिष्ठति। तावत्स गोमुखो धीमांस्तं राज्यधरमभ्यधात् ॥१३३॥ कुरु यन्त्रविमानं तन्मत्प्रभोर्यस्य येन तत्। कर्पूरसम्भवपुरं प्राप्य प्राप्नोत्यसौ प्रियाम् ॥१३४॥ नरवाहनदत्तस्य कर्पूरसम्भवद्वोपं प्रस्थितिः एतच्छ्रुत्वा स तक्षास्मै वातयन्त्रविमानकम्। नरवाहनदत्ताय पूर्वक्लृप्तमथोऽकथयत् ॥१३५॥ तत्रारुह्य मनःशीघ्रे खगामिनि सगोमुखः। तद्वीर्यालोकसोत्हासमिवोच्छलितवीचिकम् ॥१३६॥ मकराकरमुल्लङ्घ्य प्राप तत्तीरवर्त्ति सः। नरवाहनदत्तस्तत्पुरं कर्पूरसम्भवम् ॥१३७॥ तत्रावतीर्णाभिमुखो विमानादवरुह्य सः। पुरान्तः परिवभ्राम कौतुकेन सगोमुखः ॥१३८॥ पृष्ट्वाञ्च लोकतो बुद्ध्वा सर्वैवाभीप्सितं पुरम्। प्राप्तं निस्संशयं हृष्टो ययौ राजकुमान्तिकम् ॥१३९॥