कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 243, कुल 1079 में से
संदर्भ में पढ़ें२१४ कथासरित्सागर जातिस्मरोऽहं भूयासं राजपुत्रोऽन्यजन्मनि । एषा च तत्र मे भार्या भूयाज्जातिस्मरा सती ॥१८५॥ इति सङ्कल्प्य तं देहं तदा सस्मृत्य शङ्करम्। विरहानलसन्तप्तं समुद्राम्भस्यपातयत् ॥१८६॥ ततोऽयं वत्सराजस्य कौशाम्ब्यां तनयोऽधुना। नरवाहनदत्ताख्यो जातो जातिस्मरः शुभे ॥१८७॥ असौ विद्याधरेन्द्राणां चक्रवर्ती भविष्यति । इति वागुदभूद्दिव्या जातस्यास्य स्फुटं तदा ॥१८८॥ क्रमण यौवराज्यस्थः पित्राथ परिणायितः । दिव्यां कामरसम्भूतां देवीं मदनमञ्चुकाम् ॥१८९॥ ततो हेमप्रभाख्यस्य विद्याधरपतेः सुता। एत्य स्वयं वृतवती कन्या रत्नप्रभेत्यमुम् ॥१९०॥ तथापि तां स्मरन्नृत्सीं नायं भजति निर्वृतिम्। एतच्च बालभृत्याय मह्यमेतेन वर्णितम् ॥१९१॥ अथास्य मृगयायातस्यासीत्सन्दर्शनं वने । कयापि सिद्धतापस्या मद्वितीयस्य दैवतः ॥१९२॥ कथाप्रसङ्गात्सा चैतमेव सानुग्रहाब्रवीत्। कर्मयोगात्पुरा पुत्र कामो हंसत्वमागतः ॥१९३॥ तस्य चाम्बुनिधीरतस्थचन्दनद्रुमवासिनः । प्रिया भार्याभवद्बत्सी दिव्यस्त्री शापतश्च्युता ॥१९४॥ वेलाजलहुतापरयशोकस्तस्यां च वारिधौ। क्षिप्तात्मनि स हंसोऽपि तत्रेवात्मानमक्षिपत् ॥१९५॥ सोऽद्य शम्भोः प्रसादात्त्वं जातो वत्सेश्वरात्मजः । पूर्वजातिं च तां वत्स वेत्सि जातिस्मरो ह्यसि ॥१९६॥ सा ह्यस्त्येवमेवाम्भोः पारे कर्पूरसम्भवे। पुरे कर्पूरिका नाम जाता राजसुताधुना ॥१९७॥ तद्गच्छ तत्र पुत्र त्वं प्रियां भार्यामवाप्स्यसि । इत्युक्त्वा सा समुत्पत्य तिरोभूत्सिद्धतापसी ॥१९८॥ अयं चास्मत्प्रभुर्जातप्रभृतिस्तत्क्षणं ततः। इतोऽभिमुखमागन्तुं प्रावर्त्तत मया सह ॥१९९॥