भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 267, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 267

२४८ कथासरित्सागर मातुलं च सहायातं तस्य ससम्भ्रमं सानुगम्। चक्रे मुण्डितमूर्धानं सत्कान्ताहरणैषिणम् ॥५९॥ भार्याबन्धू इति क्रुद्धोऽप्यवधीन्न स तावुभौ। दर्पभङ्गलक्षी तु विहस्य प्रतिमुक्तवान् ॥६० ॥ ततः स नवभिः सूर्यप्रभः कान्ताभिरन्वितः। पित्राहूतो विमानेन स्वपुरं शाकलं ययौ ॥६१॥ ततश्चास्य पितुश्चन्द्रप्रभभूमिभृतोऽन्तिकम्। प्राहिणोत्ताम्रलिप्तीतो दूतं वीरभटो नृपः ॥६२॥ सन्निवेशं च पुत्रेण तव मेऽभूदृते सुते । तदस्तु विलासिभ्यो हि श्लाघ्य एष पतिस्तयोः ॥६३॥ स्नेहश्च यदि वोऽस्मासु तदिहागच्छताधुना। विवाहाचारसंस्कारस्तस्य यावद्विदध्महे ॥६४॥ एतच्छ्रुत्वा स सत्कृत्य दूतं निश्चितवांस्तदा। श्व एव तत्र गमनं राजा चन्द्रप्रभो द्रुतम् ॥६५॥ सत्यत्वनिश्चयं ज्ञातुं राज्ञो वीरभटस्य तु। प्रहस्तं प्राहिणोमत्त्वा दूरं द्रुतगमागमी ॥६६॥ स प्रहस्तो जवाद् गत्वा दृष्ट्वा वीरभटं च तम्। नृपं दृष्ट्वा च तत्कार्यं तच्छ्रितैस्सुपूजितः ॥६७॥ तस्मै सविस्मयायोक्त्वा प्रभूणां प्रातरागमम्। मुहूर्तेनाययौ चन्द्रप्रभपार्श्वं विहायसा ॥६८॥ शशंस तस्मै राज्ञे च सज्जं वीरभटं स्थितम्। सोऽपि तं सचिवं सूनोस्तुष्टो राजाभ्यपूजयत् ॥६९॥ ततः कीर्तिमतीदेव्या सह चन्द्रप्रभः प्रभुः। सूर्यप्रभो विलासिन्या तथा मदनसेनया ॥७० ॥ भूतासनमानं तदारुह्य सपरिच्छदौ। सामात्यौ चापरेद्युस्तो प्रातः प्रययतुस्ततः ॥७१॥ अह्नः प्रहरमात्रेण ताम्रलिप्तीमवापतुः । दृश्यमानौ जनैर्व्योम्नि कौतुकोत्क्षिप्तलोचनैः ॥७२॥ नभस्तरावतीर्णौ च कृतप्रत्युद्गमेन तौ। राजा वीरभटेनैतां क्षमं विविशतुः पुरीम् ॥७३॥