कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 289, कुल 1079 में से
संदर्भ में पढ़ेंसहेवाननपद्मस्य रुद्रप्रत्याशयानया। यथाचरथ दर्पेण भवतां न शिवाय तत् ॥१९॥ इत्युक्ते सत्रसन्निवेशे नारदेन विहस्य तम्। मयोऽब्रवीन् न साधूक्तं सुरेन्द्रेण महामुने ॥२०॥ सूर्यप्रभस्य मर्त्यस्य यदुक्ति तदपार्थकम्। वह्वामोवरसङ्ग्रामे न ज्ञातं तेन तस्य किम् ॥२१॥ मर्त्या एव हि सत्त्वाढ्याः सर्वसिद्धयर्थकारिणः। ऐन्द्रं न साधितं पूर्वं पदं किं नहुषादिभिः ॥२२॥ यच्चाह दत्तमस्माभिः साम्राज्यं श्रुतशर्मणे। क्रमागतं च तत् तस्येतेद्वप्यसमञ्जसम् ॥२३॥ दाता महेश्वरो यत्र प्रामाण्यं तत्र कस्य किम्। ज्येष्ठागतं हिरण्याक्षस्येन्द्रत्वं च कथं कृतम् ॥२४॥ यच्चापरं प्रातिपक्ष्यमधर्मं चाह तन्मृषा। स एव हि हठात् स्वार्थं प्रातिपक्ष्यं करोति नः ॥२५॥ कश्चाधर्मो जिगीषामो वयं हि परिपन्थिनम्। न हरामो मुनेर्भार्यां१ ब्रह्महत्यां२ न कुर्महे ॥२६॥ यच्चाश्वमेधाकरणं वेदावज्ञां च जल्पति। तदसद्भूतयज्ञे हि विहितेऽन्यैः किमध्वरैः ॥२७॥ अचिते देवदेवे च सम्भौ देवो न कोऽचितः। यच्चाहंनैव दास्या न पिबेति तदप्यसत् ॥२८॥ किं सत्र दवनिर्वह्नेरन्यैर्यत्रोद्यतो हरः। रवावभ्युदितऽन्यानि किं तेजांसि चकासति ॥२९॥ तदेतद्देवराजाय सर्वं वाच्यं त्वया मुने। वयं च प्रस्तुतं कुर्मः स यद्वेत्ति करोतु तत् ॥३०॥ एवं मयासुरेणोक्तो नारदषिस्तथेति तम्। प्रतिसन्देशमादाय ययौ सुरपतिं प्रति ॥३१॥ गत तस्मिन् मुनौ सोऽत्र तं चन्द्रप्रभमूपतिम्। शत्रुसन्देशसाशङ्कमुखाभं मयासुरः ॥३२॥
१ अत्र गौतमधर्म्मदारस्य जारत्वमिन्द्रस्य व्यज्यते। २ त्वाष्ट्रस्य वत्रासुरस्य हननं स्मर्य्यते।