भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 295, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 295

२६६ कथासरित्सागर तस्माद्विकल्पो मा भूद्वः प्रत्युतैष भूपो महत्। दिव्यं शरीरमाप्नोति जरारोगविवर्जितम् ॥६२॥ यूयं च दानवाः सर्वे प्रविश्यैभ रसातलम्। सुधापानेन नीरोगदिव्यदेहा भविष्यथ ॥६३॥ एतन्मयासुरवचः श्रुत्वा सर्वे तथेति ते। शङ्कातप्यपरित्यक्तशङ्कास्तत्प्रतिपेदिरे ॥६४॥ तद्वाक्येन च सोऽप्येवमिलिताखिलराजनकः। चन्द्रप्रभश्चन्द्रभागेरावत्योः सङ्गमं ययौ ॥६५॥ तत्रावस्थाप्य नृपतीन् बहिनिक्षिप्य तेषु सः। सूर्यप्रमावरोधांस्तानुरेष्य मयदर्शितम् ॥६६॥ विवेश विवरं सोऽथ सह सूर्यप्रभेण सः। चन्द्रप्रभः समं देव्या सिद्धार्थेशैश्च मन्त्रिभिः ॥६७॥ प्रविश्य गत्वा दीर्घं च तेनाध्वानं ददर्श सः। दिव्यं देवकुलं तच्च सर्वैः सह विवेश तैः ॥६८॥ तावच्च ये स्थितास्तत्र राजानो विवराद्बहिः। तेषां विद्याधरा व्योम्ना सैन्यैः सह समापतन्¹ ॥६९॥ ते तान्संस्तम्भ्य मायाभिर्भार्याः सूर्यप्रभस्य ताः। अहुरंस्तत्क्षणं चावमुदगाद् भारती दिवः ॥७०॥ श्रुतशर्म्न्नरे पाप यद्येताश्चक्रवर्तिनः। भार्याः स्पृश्यसि तत्सद्यः ससैन्यो मृत्युमाप्स्यसि ॥७१॥ तस्मान्मासुवदतास्त्वं पश्यन् रक्षे सगौरवम्। अधुनैव न हत्वा त्वां यदेता मोषिता मया ॥७२॥ समास्ति कारणं किञ्चित्तत्तिष्ठन्त्वत्र सम्प्रति। इत्युक्ते दिव्यया वाचा खचरास्ते तिरोदधुः ॥७३॥ राजानस्ते च मीढास्ता दृष्ट्वा वीरभटादयः। आसन्नान्योन्ययुद्धेन दहत्याग कृतोद्यमाः ॥७४॥ मैतानामस्ति विश्वस्तः प्राप्स्यथैताः सुताः पुनः। तस्याह्वं न युष्माभिः कार्य पश्चाणमस्तु वः ॥७५॥ १ आक्रमणं चक्रुरित्यर्थः।