कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 305, कुल 1079 में से
संदर्भ में पढ़ें२७६ कथासरित्सागर पद्मप्रभसुनीथ च सतोऽवादीन् मयासुरः। पुत्रैहि यामः पश्य त्वं मातरं सुचिरादिति ॥१३३॥ सतस्तथेति चोद्युक्त सुनीथेऽग्रेसरे मये। ययौ चतुर्थं पाताल सह सूर्यप्रभादिभिः ॥१३४॥ तत्र चित्राणि पश्यन्तो नानाधातुमयानि च। पुराण्यथ पुरं प्रापुः सर्वे सर्वहिरण्मयम् ॥१३५॥ यत्र रत्नमयस्तम्भे सर्वसम्पन्निकेतने। ददृशुर्मयभार्यां तां ते सुनीथस्य मातरम् ॥१३६॥ नाम्ना लीलावतीं रूपेणाधःकृतसुराङ्गनाम्। वृतामसुरकन्याभिः सर्वाभरणभूषिताम् ॥१३७॥ सा दृष्ट्वैव सुनीथं तमुदतिष्ठत्ससम्भ्रमम्। सुनीथोऽप्यपतत् तस्या अभिवाद्यैव पादयोः ॥१३८॥ ततः सा स चिरस्पृष्टामाश्लिष्योदश्रुरात्मजम्। पुनस्तत् प्राप्तिहेतुं स शशंस मय पतिम् ॥१३९॥ अथाऽब्रवीन् मयो देवि सुमुण्डीकोऽसुरः स ते। पुत्रः पुत्रोऽस्य पुत्रस्य जातः सूर्यप्रभोऽप्ययम् ॥१४०॥ एष विद्याधरेन्द्राणां चक्रवर्ती पुरारिणा। एतेनैव शरीरेण भावी देवि विनिर्मितः ॥१४१॥ एतच्छ्रुत्वाभिषद्यन्त्यारतस्याः सोत्सुकया दृशा। सूर्यप्रभः पपातैत्य पादयोः सचिवैः सह ॥१४२॥ किं सुमुण्डीक देहेन परोक्षेनेव शोभसे। इति लीलावती दृष्ट्या पादार्प सममापतत् ॥१४३॥ ततोऽत्र पुत्राभ्युदये मयो मन्दोदरीं सुताम्। विभीषणं च सस्मार स्मृतावाजग्मतुश्च तौ ॥१४४॥ गृहीतोराद्यसत्कारः स तं प्राह विभीषणः। करोषि यदि मे कार्यं दानवेन्द्र वदामि तत् ॥१४५॥ दानवेषु स्वयमथः गृह्णती नभजीवितः।